Mantra with Swara
व्य॑स्तभ्ना॒द् रोद॑सी मि॒त्रो अद्भु॑तोऽन्त॒र्वाव॑दकृणो॒ज्ज्योति॑षा॒ तमः॑। वि चर्म॑णीव धि॒षणे॑ अवर्तयद्वैश्वान॒रो विश्व॑मधत्त॒ वृष्ण्य॑म् ॥३॥
वि । अ॒स्त॒भ्ना॒त् । रोद॑सी॒ इति॑ । मि॒त्रः । अद्भु॑तः । अ॒न्तः॒ऽवाव॑त् । अ॒कृ॒णो॒त् । ज्योति॑षा । तमः॑ । वि । चर्म॑णीइ॒वेति॒ चर्म॑णीऽइव । धि॒षणे॒ इति॑ । अ॒व॒र्त॒य॒त् । वै॒श्वा॒न॒रः । विश्व॑म् । अ॒ध॒त्त॒ । वृष्ण्य॑म् ॥
Mantra without Swara
व्यस्तभ्नाद् रोदसी मित्रो अद्भुतोऽन्तर्वावदकृणोज्ज्योतिषा तमः। वि चर्मणीव धिषणे अवर्तयद्वैश्वानरो विश्वमधत्त वृष्ण्यम् ॥
वि। अस्तभ्नात्। रोदसी इति। मित्रः। अद्भुतः। अन्तःऽवावत्। अकृणोत्। ज्योतिषा। तमः। वि। चर्मणीइवेति चर्मणीऽइव। धिषणे इति। अवर्तयत्। वैश्वानरः। विश्वम्। अधत्त। वृष्ण्यम् ॥३॥
Ashtak » 4
Adhyay » 5
Varga » 10
Mantra » 3
