Mantra with Swara
स जाय॑मानः पर॒मे व्यो॑मनि व्र॒तान्य॒ग्निर्व्र॑त॒पा अ॑रक्षत। व्य१॒॑न्तरि॑क्षममिमीत सु॒क्रतु॑र्वैश्वान॒रो म॑हि॒ना नाक॑मस्पृशत् ॥२॥
सः । जाय॑मानः । प॒र॒मे । विऽओ॑मनि । व्र॒तानि॑ । अ॒ग्निः । व्र॒त॒ऽपाः । अ॒र॒क्ष॒त॒ । वि । अ॒न्तरि॑क्षम् । अ॒मि॒मी॒त॒ । सु॒ऽक्रतुः॑ । वै॒श्वा॒न॒रः । म॒हि॒ना । नाक॑म् । अ॒स्पृ॒श॒त् ॥
Mantra without Swara
स जायमानः परमे व्योमनि व्रतान्यग्निर्व्रतपा अरक्षत। व्य१न्तरिक्षममिमीत सुक्रतुर्वैश्वानरो महिना नाकमस्पृशत् ॥
सः। जायमानः। परमे। विऽओमनि। व्रतानि। अग्निः। व्रतऽपाः। अरक्षत। वि। अन्तरिक्षम्। अमिमीत। सुऽक्रतुः। वैश्वानरः। महिना। नाकम्। अस्पृशत् ॥२॥
Ashtak » 4
Adhyay » 5
Varga » 10
Mantra » 2
