Mantra with Swara
इन्द्रा॑सोमा यु॒वम॒ङ्ग तरु॑त्रमपत्य॒साचं॒ श्रुत्यं॑ रराथे। यु॒वं शुष्मं॒ नर्यं॑ चर्ष॒णिभ्यः॒ सं वि॑व्यथुः पृतना॒षाह॑मुग्रा ॥५॥
इन्द्रा॑सोमा । यु॒वम् । अ॒ङ्ग । तरु॑त्रम् । अ॒प॒त्य॒ऽसाच॑म् । श्रुत्य॑म् । र॒रा॒थे॒ इति॑ । यु॒वम् । शुष्म॑म् । नर्य॑म् । च॒र्ष॒णिऽभ्यः॑ । सम् । वि॒व्य॒थुः॒ । पृ॒त॒ना॒ऽसह॑म् । उ॒ग्रा॒ ॥
Mantra without Swara
इन्द्रासोमा युवमङ्ग तरुत्रमपत्यसाचं श्रुत्यं रराथे। युवं शुष्मं नर्यं चर्षणिभ्यः सं विव्यथुः पृतनाषाहमुग्रा ॥
इन्द्रासोमा। युवम्। अङ्ग। तरुत्रम्। अपत्यऽसाचम्। श्रुत्यम्। रराथे इति। युवम्। शुष्मम्। नर्यम्। चर्षणिऽभ्यः। सम्। विव्यथुः। पृतनाऽसहम्। उग्रा ॥५॥
Ashtak » 5
Adhyay » 1
Varga » 16
Mantra » 5
