Mantra with Swara
इन्द्रा॑सोमा॒वहि॑म॒पः प॑रि॒ष्ठां ह॒थो वृ॒त्रमनु॑ वां॒ द्यौर॑मन्यत। प्रार्णां॑स्यैरयतं न॒दीना॒मा स॑मु॒द्राणि॑ पप्रथुः पु॒रूणि॑ ॥३॥
इन्द्रा॑सोमौ । अहि॑म् । अ॒पः । प॒रि॒ऽस्थाम् । ह॒थः । वृ॒त्रम् । अनु॑ । वा॒म् । द्यौः । अ॒म॒न्य॒त॒ । प्र । अर्णां॑सि । ऐ॒र॒य॒त॒म् । न॒दीना॑म् । आ । स॒मु॒द्राणि॑ । प॒प्र॒थुः॒ । पु॒रूणि॑ ॥
Mantra without Swara
इन्द्रासोमावहिमपः परिष्ठां हथो वृत्रमनु वां द्यौरमन्यत। प्रार्णांस्यैरयतं नदीनामा समुद्राणि पप्रथुः पुरूणि ॥
इन्द्रासोमौ। अहिम्। अपः। परिऽस्थाम्। हथः। वृत्रम्। अनु। वाम्। द्यौः। अमन्यत। प्र। अर्णांसि। ऐरयतम्। नदीनाम्। आ। समुद्राणि। पप्रथुः। पुरूणि ॥३॥
Ashtak » 5
Adhyay » 1
Varga » 16
Mantra » 3
