Mantra with Swara
इन्द्रा॑सोमा वा॒सय॑थ उ॒षास॒मुत्सूर्यं॑ नयथो॒ ज्योति॑षा स॒ह। उप॒ द्यां स्क॒म्भथुः॒ स्कम्भ॑ने॒नाप्र॑थतं पृथि॒वीं मा॒तरं॒ वि ॥२॥
इन्द्रा॑सोमा । वा॒सय॑थः । उ॒षस॑म् । उत् । सूर्य॑म् । न॒य॒थः॒ । ज्योति॑षा । स॒ह । उप॑ । द्याम् । स्क॒म्भथुः॑ । स्कम्भ॑नेन । अप्र॑थतम् । पृ॒थि॒वीम् । मा॒तर॑म् । वि ॥
Mantra without Swara
इन्द्रासोमा वासयथ उषासमुत्सूर्यं नयथो ज्योतिषा सह। उप द्यां स्कम्भथुः स्कम्भनेनाप्रथतं पृथिवीं मातरं वि ॥
इन्द्रासोमा। वासयथः। उषसम्। उत्। सूर्यम्। नयथः। ज्योतिषा। सह। उप। द्याम्। स्कम्भथुः। स्कम्भनेन। अप्रथतम्। पृथिवीम्। मातरम्। वि ॥२॥
Ashtak » 5
Adhyay » 1
Varga » 16
Mantra » 2
