Mantra with Swara
मधु॑ नो॒ द्यावा॑पृथि॒वी मि॑मिक्षतां मधु॒श्चुता॑ मधु॒दुघे॒ मधु॑व्रते। दधा॑ने य॒ज्ञं द्रवि॑णं च दे॒वता॒ महि॒ श्रवो॒ वाज॑म॒स्मे सु॒वीर्य॑म् ॥५॥
मधु॑ । नः॒ । द्यावा॑पृथि॒वी इति॑ । मि॒मि॒क्ष॒ता॒म् । म॒धु॒ऽश्चुता॑ । म॒धु॒दुघे॒ इति॑ म॒धु॒ऽदुघे॑ । मधु॑व्रते॒ इति॒ मधु॑ऽव्रते । दधा॑ने॒ इति॑ । य॒ज्ञम् । द्रवि॑णम् । च॒ । दे॒वता॑ । महि॑ । श्रवः॑ । वाज॑म् । अ॒स्मे इति॑ । सु॒ऽवीर्य॑म् ॥
Mantra without Swara
मधु नो द्यावापृथिवी मिमिक्षतां मधुश्चुता मधुदुघे मधुव्रते। दधाने यज्ञं द्रविणं च देवता महि श्रवो वाजमस्मे सुवीर्यम् ॥
मधु। नः। द्यावापृथिवी इति। मिमिक्षताम्। मधुऽश्चुता। मधुदुघे इति मधुऽदुघे। मधुव्रते इति मधुऽव्रते। दधाने इति। यज्ञम्। द्रविणम्। च। देवता। महि। श्रवः। वाजम्। अस्मे इति। सुऽवीर्यम् ॥५॥
Ashtak » 5
Adhyay » 1
Varga » 14
Mantra » 5
