Mantra with Swara
इ॒दा हि त॑ उषो अद्रिसानो गो॒त्रा गवा॒मङ्गि॑रसो गृ॒णन्ति॑। व्य१॒॑र्केण॑ बिभिदु॒र्ब्रह्म॑णा च स॒त्या नृ॒णाम॑भवद्दे॒वहू॑तिः ॥५॥
इ॒दा । हि । ते॒ । उ॒षः॒ । अ॒द्रि॒सा॒नो॒ इत्य॑द्रिऽसानो । गो॒त्रा । गवा॑म् । अङ्गि॑रसः । गृ॒णन्ति॑ । वि । अ॒र्केण॑ । बि॒भि॒दुः॒ । ब्रह्म॑णा । च॒ । स॒त्या । नृ॒णाम् । अ॒भ॒व॒त् । दे॒वऽहू॑तिः ॥
Mantra without Swara
इदा हि त उषो अद्रिसानो गोत्रा गवामङ्गिरसो गृणन्ति। व्य१र्केण बिभिदुर्ब्रह्मणा च सत्या नृणामभवद्देवहूतिः ॥
इदा। हि। ते। उषः। अद्रिसानो इत्यद्रिऽसानो। गोत्रा। गवाम्। अङ्गिरसः। गृणन्ति। वि। अर्केण। बिभिदुः। ब्रह्मणा। च। सत्या। नृणाम्। अभवत्। देवऽहूतिः ॥५॥
Ashtak » 5
Adhyay » 1
Varga » 6
Mantra » 5
