Mantra with Swara
वि तद्य॑युररुण॒युग्भि॒रश्वै॑श्चि॒त्रं भा॑न्त्यु॒षस॑श्च॒न्द्रर॑थाः। अग्रं॑ य॒ज्ञस्य॑ बृह॒तो नय॑न्ती॒र्वि ता बा॑धन्ते॒ तम॒ ऊर्म्या॑याः ॥२॥
वि । तत् । य॒युः॒ । अ॒रु॒ण॒युक्ऽभिः॑ । अश्वैः॑ । चि॒त्रम् । भा॒न्ति॒ । उ॒षसः॑ । च॒न्द्रऽर॑थाः । अग्र॑म् । य॒ज्ञस्य॑ । बृ॒ह॒तः । नय॑न्तीः । वि । ताः । बा॒ध॒न्ते॒ । तमः॑ । ऊर्म्या॑याः ॥
Mantra without Swara
वि तद्ययुररुणयुग्भिरश्वैश्चित्रं भान्त्युषसश्चन्द्ररथाः। अग्रं यज्ञस्य बृहतो नयन्तीर्वि ता बाधन्ते तम ऊर्म्यायाः ॥
वि। तत्। ययुः। अरुणयुक्ऽभिः। अश्वैः। चित्रम्। भान्ति। उषसः। चन्द्रऽरथाः। अग्रम्। यज्ञस्य। बृहतः। नयन्तीः। वि। ताः। बाधन्ते। तमः। ऊर्म्यायाः ॥२॥
Ashtak » 5
Adhyay » 1
Varga » 6
Mantra » 2
