Mantra 1
इ॒यम॑ददाद्रभ॒समृ॑ण॒च्युतं॒ दिवो॑दासं वध्र्य॒श्वाय॑ दा॒शुषे॑। या शश्व॑न्तमाच॒खादा॑व॒सं प॒णिं ता ते॑ दा॒त्राणि॑ तवि॒षा स॑रस्वति ॥१॥
इ॒यम् । अ॒द॒दा॒त् । र॒भ॒सम् । ऋ॒ण॒ऽच्युत॑म् । दिवः॑ऽदासम् । व॒ध्रि॒ऽअ॒श्वाय॑ । दा॒शुषे॑ । या । शश्व॑न्तम् । आ॒ऽच॒खाद॑ । अ॒व॒सम् । प॒णिम् । ता । ते॒ । दा॒त्राणि॑ । त॒वि॒षा । स॒र॒स्व॒ति॒ ॥
Mantra 2
इ॒यं शुष्मे॑भिर्बिस॒खाइ॑वारुज॒त्सानु॑ गिरी॒णां त॑वि॒षेभि॑रू॒र्मिभिः॑। पा॒रा॒व॒त॒घ्नीमव॑से सुवृ॒क्तिभिः॒ सर॑स्वती॒मा वि॑वासेम धी॒तिभिः॑ ॥२॥
इ॒यम् । शुष्मे॑भिः । बि॒स॒खाःऽइ॑व । अ॒रु॒ज॒त् । सानु॑ । गि॒री॒णाम् । त॒वि॒षेभिः॑ । ऊ॒र्मिऽभिः॑ । पा॒रा॒व॒त॒ऽघ्नीम् । अव॑से । सु॒वृ॒क्तिऽभिः॑ । सर॑स्वतीम् । आ । वि॒वा॒से॒म॒ । धी॒तिऽभिः॑ ॥
Mantra 3
सर॑स्वति देव॒निदो॒ नि ब॑र्हय प्र॒जां विश्व॑स्य॒ बृस॑यस्य मा॒यिनः॑। उ॒त क्षि॒तिभ्यो॒ऽवनी॑रविन्दो वि॒षमे॑भ्यो अस्रवो वाजिनीवति ॥३॥
सर॑स्वति । दे॒व॒ऽनिदः॑ । नि । ब॒र्ह॒य॒ । प्र॒ऽजाम् । विश्व॑स्य । बृस॑यस्य । मा॒यिनः॑ । उ॒त । क्षि॒तिऽभ्यः॑ । अ॒वनीः॑ । अ॒वि॒न्दः॒ । वि॒षम् । ए॒भ्यः॒ । अ॒स्र॒वः॒ । वा॒जि॒नी॒ऽव॒ति॒ ॥
Mantra 4
प्र णो॑ दे॒वी सर॑स्वती॒ वाजे॑भिर्वा॒जिनी॑वती। धी॒नाम॑वि॒त्र्य॑वतु ॥४॥
प्र । नः॒ । दे॒वी । सर॑स्वती । वाजे॑भिः । वा॒जिनी॑ऽवती । धी॒नाम् । अ॒वि॒त्री । अ॒व॒तु॒ ॥
Mantra 5
यस्त्वा॑ देवि सरस्वत्युपब्रू॒ते धने॑ हि॒ते। इन्द्रं॒ न वृ॑त्र॒तूर्ये॑ ॥५॥
यः । त्वा॒ । दे॒वि॒ । स॒र॒स्व॒ति॒ । उ॒प॒ऽब्रू॒ते । धने॑ । हि॒ते । इन्द्र॑म् । न । वृ॒त्र॒ऽतूर्ये॑ ॥
Mantra 6
त्वं दे॑वि सरस्व॒त्यवा॒ वाजे॑षु वाजिनि। रदा॑ पू॒षेव॑ नः स॒निम् ॥६॥
त्वम् । दे॒वि॒ । स॒र॒स्व॒ति॒ । अव॑ । वाजे॑षु । वा॒जि॒नि॒ । रद॑ । पू॒षाऽइ॑व । नः॒ । स॒निम् ॥
Mantra 7
उ॒त स्या नः॒ सर॑स्वती घो॒रा हिर॑ण्यवर्तनिः। वृ॒त्र॒घ्नी व॑ष्टि सुष्टु॒तिम् ॥७॥
उ॒त । स्या । नः॒ । सर॑स्वती । घो॒रा । हिर॑ण्यऽवर्तनिः । वृ॒त्र॒ऽघ्नी । व॒ष्टि॒ । सु॒ऽस्तु॒तिम् ॥
Mantra 8
यस्या॑ अन॒न्तो अह्रु॑तस्त्वे॒षश्च॑रि॒ष्णुर॑र्ण॒वः। अम॒श्चर॑ति॒ रोरु॑वत् ॥८॥
यस्याः॑ । अ॒न॒न्तः । अहु॑तः । त्वे॒षः । च॒रि॒ष्णुः । अ॒र्ण॒वः । अमः॑ । चर॑ति । रोरु॑वत् ॥
Mantra 9
सा नो॒ विश्वा॒ अति॒ द्विषः॒ स्वसॄ॑र॒न्या ऋ॒ताव॑री। अत॒न्नहे॑व॒ सूर्यः॑ ॥९॥
सा । नः॒ । विश्वा॑ । अति॑ । द्विषः॑ । स्वसॄः॑ । अ॒न्याः । ऋ॒तऽव॑री । अत॑न् । अहा॑ऽइव । सूर्यः॑ ॥
Mantra 10
उ॒त नः॑ प्रि॒या प्रि॒यासु॑ स॒प्तस्व॑सा॒ सुजु॑ष्टा। सर॑स्वती॒ स्तोम्या॑ भूत् ॥१०॥
उ॒त । नः॒ । प्रि॒या । प्रि॒यासु॑ । स॒प्तऽस्व॑सा । सुऽजु॑ष्टा । सर॑स्वती । स्तोम्या॑ । भू॒त् ॥
Mantra 11
आ॒प॒प्रुषी॒ पार्थि॑वान्यु॒रु रजो॑ अ॒न्तरि॑क्षम्। सर॑स्वती नि॒दस्पा॑तु ॥११॥
आ॒ऽप॒प्रुषी॑ । पार्थि॑वानि । उ॒रु । रजः॑ । अ॒न्तरि॑क्षम् । सर॑स्वती । नि॒दः । पा॒तु॒ ॥
Mantra 12
त्रि॒ष॒धस्था॑ स॒प्तधा॑तुः॒ पञ्च॑ जा॒ता व॒र्धय॑न्ती। वाजे॑वाजे॒ हव्या॑ भूत् ॥१२॥
त्रि॒ऽस॒धस्था॑ । स॒प्तऽधा॑तुः । पञ्च॑ । जा॒ता । व॒र्धय॑न्ती । वाजे॑ऽवाजे । हव्या॑ । भू॒त् ॥
Mantra 13
प्र या म॑हि॒म्ना म॒हिना॑सु॒ चेकि॑ते द्यु॒म्नेभि॑र॒न्या अ॒पसा॑म॒पस्त॑मा। रथ॑इव बृह॒ती वि॒भ्वने॑ कृ॒तोप॒स्तुत्या॑ चिकि॒तुषा॒ सर॑स्वती ॥१३॥
प्र । या । म॒हि॒म्ना । म॒हिना॑सु । चेकि॑ते । द्यु॒म्नेभिः॑ । अ॒न्याः । अ॒पसा॑म् । अ॒पःऽत॑मा । रथः॑ऽइव । बृ॒ह॒ती । वि॒ऽभ्वने॑ । कृ॒ता । उ॒प॒ऽस्तुत्या॑ । चि॒कि॒तुषा॑ । सर॑स्वती ॥
Mantra 14
सर॑स्वत्य॒भि नो॑ नेषि॒ वस्यो॒ माप॑ स्फरीः॒ पय॑सा॒ मा न॒ आ ध॑क्। जु॒षस्व॑ नः स॒ख्या वे॒श्या॑ च॒ मा त्वत्क्षेत्रा॒ण्यर॑णानि गन्म ॥१४॥
सर॑स्वति । अ॒भि । नः॒ । ने॒षि॒ । वस्यः॑ । मा । अप॑ । स्फ॒रीः॒ । पय॑सा । मा । नः॒ । आ । ध॒क् । जु॒षस्व॑ । नः॒ । स॒ख्या । वे॒श्या॑ । च॒ । मा । त्वत् । क्षेत्रा॑णि । अर॑णानि । ग॒न्म॒ ॥