Mantra with Swara
स चि॑त्र चि॒त्रं चि॒तय॑न्तम॒स्मे चित्र॑क्षत्र चि॒त्रत॑मं वयो॒धाम्। च॒न्द्रं र॒यिं पु॑रु॒वीरं॑ बृ॒हन्तं॒ चन्द्र॑ च॒न्द्राभि॑र्गृण॒ते यु॑वस्व ॥७॥
सः । चि॒त्र॒ । चि॒त्रम् । चि॒तय॑न्तम् । अ॒स्मे इति॑ । चित्र॑ऽक्षत्र । चि॒त्रऽत॑मम् । व॒यः॒ऽधाम् । च॒न्द्रम् । र॒यिम् । पु॒रु॒ऽवीर॑म् । बृ॒हन्त॑म् । चन्द्र॑ । च॒न्द्राभिः॑ । गृ॒ण॒ते । यु॒व॒स्व॒ ॥
Mantra without Swara
स चित्र चित्रं चितयन्तमस्मे चित्रक्षत्र चित्रतमं वयोधाम्। चन्द्रं रयिं पुरुवीरं बृहन्तं चन्द्र चन्द्राभिर्गृणते युवस्व ॥
सः। चित्र। चित्रम्। चितयन्तम्। अस्मे इति। चित्रऽक्षत्र। चित्रऽतमम्। वयःऽधाम्। चन्द्रम्। रयिम्। पुरुऽवीरम्। बृहन्तम्। चन्द्र। चन्द्राभिः। गृणते। युवस्व ॥७॥
Ashtak » 4
Adhyay » 5
Varga » 8
Mantra » 7
