Mantra with Swara
अध॑ जि॒ह्वा पा॑पतीति॒ प्र वृष्णो॑ गोषु॒युधो॒ नाशनिः॑ सृजा॒ना। शूर॑स्येव॒ प्रसि॑तिः क्षा॒तिर॒ग्नेर्दु॒र्वर्तु॑र्भी॒मो द॑यते॒ वना॑नि ॥५॥
अध॑ । जि॒ह्वा । पा॒प॒ती॒ति॒ । प्र । वृष्णः॑ । गो॒षु॒ऽयुधः॑ । न । अ॒शनिः॑ । सृ॒जा॒ना । शूर॑स्यऽइव । प्रऽसि॑तिः । क्षा॒तिः । अ॒ग्नेः । दुः॒ऽवर्तुः॑ । भी॒मः । द॒य॒ते॒ । वना॑नि ॥
Mantra without Swara
अध जिह्वा पापतीति प्र वृष्णो गोषुयुधो नाशनिः सृजाना। शूरस्येव प्रसितिः क्षातिरग्नेर्दुर्वर्तुर्भीमो दयते वनानि ॥
अध। जिह्वा। पापतीति। प्र। वृष्णः। गोषुऽयुधः। न। अशनिः। सृजाना। शूरस्यऽइव। प्रऽसितिः। क्षातिः। अग्नेः। दुःऽवर्तुः। भीमः। दयते। वनानि ॥५॥
Ashtak » 4
Adhyay » 5
Varga » 8
Mantra » 5
