Mantra 1
सं पू॑षन्वि॒दुषा॑ नय॒ यो अञ्ज॑सानु॒शास॑ति। य ए॒वेदमिति॒ ब्रव॑त् ॥१॥
सम् । पू॒ष॒न् । वि॒दुषा॑ । न॒य॒ । यः । अञ्ज॑सा । अ॒नु॒ऽशास॑ति । यः । ए॒व । इ॒दम् इति॑ । ब्रव॑त् ॥
Mantra 2
समु॑ पू॒ष्णा ग॑मेमहि॒ यो गृ॒हाँ अ॑भि॒शास॑ति। इ॒म ए॒वेति॑ च॒ ब्रव॑त् ॥२॥
सम् । ऊँ॒ इति॑ । पू॒ष्णा । ग॒मे॒म॒हि॒ । यः । गृ॒हान् । अ॒भि॒ऽशास॑ति । इ॒मे । ए॒व । इति॑ । च॒ । ब्रव॑त् ॥
Mantra 3
पू॒ष्णश्च॒क्रं न रि॑ष्यति॒ न कोशोऽव॑ पद्यते। नो अ॑स्य व्यथते प॒विः ॥३॥
पू॒ष्णः । च॒क्रम् । न । रि॒ष्य॒ति॒ । न । कोशः॑ । अव॑ । प॒द्य॒ते॒ । नो इति॑ । अ॒स्य॒ । व्य॒थ॒ते॒ । प॒विः ॥
Mantra 4
यो अ॑स्मै ह॒विषावि॑ध॒न्न तं पू॒षापि॑ मृष्यते। प्र॒थ॒मो वि॑न्दते॒ वसु॑ ॥४॥
यः । अ॒स्मै॒ । ह॒विषा । अवि॑धत् । न । तम् । पू॒षा । अपि॑ । मृ॒ष्य॒ते॒ । प्र॒थ॒मः । वि॒न्द॒ते॒ । वसु॑ ॥
Mantra 5
पू॒षा गा अन्वे॑तु नः पू॒षा र॑क्ष॒त्वर्व॑तः। पू॒षा वाजं॑ सनोतु नः ॥५॥
पू॒षा । गाः । अनु॑ । ए॒तु॒ । नः॒ । पू॒षा । र॒क्ष॒तु॒ । अर्व॑तः । पू॒षा । वाज॑म् । स॒नो॒तु॒ । नः॒ ॥
Mantra 6
पूष॒न्ननु॒ प्र गा इ॑हि॒ यज॑मानस्य सुन्व॒तः। अ॒स्माकं॑ स्तुव॒तामु॒त ॥६॥
पूष॑न् । अनु॑ । प्र । गाः । इ॒हि॒ । यज॑मानस्य । सु॒न्व॒तः । अ॒स्माक॑म् । स्तु॒व॒ताम् । उ॒त ॥
Mantra 7
माकि॑र्नेश॒न्माकीं॑ रिष॒न्माकीं॒ सं शा॑रि॒ केव॑टे। अथारि॑ष्टाभि॒रा ग॑हि ॥७॥
माकिः॑ । नेश॑म् । माकी॑म् । रिष॑न् । माकी॑म् । सम् । शा॒रि॒ । केव॑टे । अथ॑ । अरि॑ष्टाभिः । आ । गा॒हि॒ ॥
Mantra 8
शृ॒ण्वन्तं॑ पू॒षणं॑ व॒यमिर्य॒मन॑ष्टवेदसम्। ईशा॑नं रा॒य ई॑महे ॥८॥
शृ॒ण्वन्त॑म् । पू॒षण॑म् । व॒यम् । इर्य॑म् । अन॑ष्टऽवेदसम् । ईशा॑नम् । रा॒यः । ई॒म॒हे॒ ॥
Mantra 9
पूष॒न्तव॑ व्र॒ते व॒यं न रि॑ष्येम॒ कदा॑ च॒न। स्तो॒तार॑स्त इ॒ह स्म॑सि ॥९॥
पूष॑न् । तव॑ । व्र॒ते । व॒यम् । न । रि॒ष्ये॒म॒ । कदा॑ । च॒न । स्तो॒तारः॑ । ते॒ । इ॒ह । स्म॒सि॒ ॥
Mantra 10
परि॑ पू॒षा प॒रस्ता॒द्धस्तं॑ दधातु॒ दक्षि॑णम्। पुन॑र्नो न॒ष्टमाज॑तु ॥१०॥
परि॑ । पू॒षा । प॒रस्ता॑त् । हस्त॑म् । द॒धा॒तु॒ । दक्षि॑णम् । पुनः॑ । नः॒ । न॒ष्टम् । आ । अ॒ज॒तु॒ ॥