Mantra 1
न तद्दि॒वा न पृ॑थि॒व्यानु॑ मन्ये॒ न य॒ज्ञेन॒ नोत शमी॑भिरा॒भिः। उ॒ब्जन्तु॒ तं सु॒भ्वः१॒॑ पर्व॑तासो॒ नि ही॑यतामतिया॒जस्य॑ य॒ष्टा ॥१॥
न । तत् । दि॒वा । न । पृ॒थि॒व्या । अनु॑ । म॒न्ये॒ । न । य॒ज्ञेन॑ । न । उ॒त । शमी॑भिः । आ॒भिः । उ॒ब्जन्तु॑ । तम् । सु॒ऽभ्वः॑ । पर्व॑तासः । नि । ही॒य॒ता॒म् । अ॒ति॒ऽया॒जस्य॑ । य॒ष्टा ॥
Mantra 2
अति॑ वा॒ यो म॑रुतो॒ मन्य॑ते नो॒ ब्रह्म॑ वा॒ यः क्रि॒यमा॑णं॒ निनि॑त्सात्। तपूं॑षि॒ तस्मै॑ वृजि॒नानि॑ सन्तु ब्रह्म॒द्विष॑म॒भि तं शो॑चतु॒ द्यौः ॥२॥
अति॑ । वा॒ । यः । म॒रु॒तः॒ । मन्य॑ते । नः॒ । ब्रह्म॑ । वा॒ । यः । क्रि॒यमा॑णम् । निनि॑त्सात् । तपूं॑षि । तस्मै॑ । वृ॒जि॒नानि॑ । स॒न्तु॒ । ब्र॒ह्म॒ऽद्विष॑म् । अ॒भि । तम् । शो॒च॒तु॒ । द्यौः ॥
Mantra 3
किम॒ङ्ग त्वा॒ ब्रह्म॑णः सोम गो॒पां किम॒ङ्ग त्वा॑हुरभिशस्ति॒पां नः॑। किम॒ङ्ग नः॑ पश्यसि नि॒द्यमा॑नान्ब्रह्म॒द्विषे॒ तपु॑षिं हे॒तिम॑स्य ॥३॥
किम् । अ॒ङ्ग । त्वा॒ । ब्रह्म॑णः । सो॒म॒ । गो॒पाम् । किम् । अ॒ङ्ग । त्वा॒ । आ॒हुः॒ । अ॒भि॒श॒स्ति॒ऽपाम् । नः॒ । किम् । अ॒ङ्ग । नः॒ । प॒श्य॒सि॒ । नि॒द्यमा॑नान् । ब्र॒ह्म॒ऽद्विषे॑ । तपु॑षिम् । हे॒तिम् । अ॒स्य॒ ॥
Mantra 4
अव॑न्तु॒ मामु॒षसो॒ जाय॑माना॒ अव॑न्तु मा॒ सिन्ध॑वः॒ पिन्व॑मानाः। अव॑न्तु मा॒ पर्व॑तासो ध्रु॒वासोऽव॑न्तु मा पि॒तरो॑ दे॒वहू॑तौ ॥४॥
अव॑न्तु । माम् । उ॒षसः॑ । जाय॑मानाः । अव॑न्तु । मा॒ । सिन्ध॑वः । पिन्व॑मानाः । अव॑न्तु । मा॒ । पर्व॑तासः । ध्रु॒वासः । अव॑न्तु । मा॒ । पि॒तरः॑ । दे॒वऽहू॑तौ ॥
Mantra 5
वि॒श्व॒दानीं॑ सु॒मन॑सः स्याम॒ पश्ये॑म॒ नु सूर्य॑मु॒च्चर॑न्तम्। तथा॑ कर॒द्वसु॑पति॒र्वसू॑नां दे॒वाँ ओहा॒नोऽव॒साग॑मिष्ठः ॥५॥
वि॒श्व॒ऽदानी॑म् । सु॒ऽमन॑सः । स्या॒म॒ । पश्ये॑म । नु । सूर्य॑म् । उ॒च्चर॑न्तम् । तथा॑ । क॒र॒त् । वसु॑ऽपतिः । वसू॑नाम् । दे॒वान् । ओहा॑नः । अव॑सा । आऽग॑मिष्ठः ॥
Mantra 6
इन्द्रो॒ नेदि॑ष्ठ॒मव॒साग॑मिष्ठः॒ सर॑स्वती॒ सिन्धु॑भिः॒ पिन्व॑माना। प॒र्जन्यो॑ न॒ ओष॑धीभिर्मयो॒भुर॒ग्निः सु॒शंसः॑ सु॒हवः॑ पि॒तेव॑ ॥६॥
इन्द्रः॑ । नेदि॑ष्ठम् । अव॑सा । आऽग॑मिष्ठः । सर॑स्वती । सिन्धु॑ऽभिः । पिन्व॑माना । प॒र्जन्यः॑ । नः॒ । ओष॑धीभिः । म॒यः॒ऽभुः । अ॒ग्निः । सु॒ऽशंसः॑ । सु॒ऽहवः॑ । पि॒ताऽइ॑व ॥
Mantra 7
विश्वे॑ देवास॒ आ ग॑त शृणु॒ता म॑ इ॒मं हव॑म्। एदं ब॒र्हिर्नि षी॑दत ॥७॥
विश्वे॑ । दे॒वा॒सः॒ । आ । ग॒त॒ । शृ॒णु॒त । मे॒ । इ॒मम् । हव॑म् । आ । इ॒दम् । ब॒र्हिः । नि । सी॒द॒त॒ ॥
Mantra 8
यो वो॑ देवा घृ॒तस्नु॑ना ह॒व्येन॑ प्रति॒भूष॑ति। तं विश्व॒ उप॑ गच्छथ ॥८॥
यः । वः॒ । दे॒वाः॒ । घृ॒तऽस्नु॑ना । ह॒व्येन॑ । प्र॒ति॒ऽभूष॑ति । तम् । विश्वे॑ । उप॑ । ग॒च्छ॒थ॒ ॥
Mantra 9
उप॑ नः सू॒नवो॒ गिरः॑ शृ॒ण्वन्त्व॒मृत॑स्य॒ ये। सु॒मृ॒ळी॒का भ॑वन्तु नः ॥९॥
उप॑ । नः॒ । सू॒नवः॑ । गिरः॑ । शृ॒ण्वन्तु॑ । अ॒मृत॑स्य । ये । सु॒ऽमृ॒ळी॒काः । भ॒व॒न्तु॒ । नः॒ ॥
Mantra 10
विश्वे॑ दे॒वा ऋ॑ता॒वृध॑ ऋ॒तुभि॑र्हवन॒श्रुतः॑। जु॒षन्तां॒ युज्यं॒ पयः॑ ॥१०॥
विश्वे॑ । दे॒वाः । ऋ॒त॒ऽवृधः॑ । ऋ॒तुऽभिः॑ । ह॒व॒न॒ऽश्रुतः॑ । जु॒षन्ता॑म् । युज्य॑म् । पयः॑ ॥
Mantra 11
स्तो॒त्रमिन्द्रो॑ म॒रुद्ग॑ण॒स्त्वष्टृ॑मान्मि॒त्रो अ॑र्य॒मा। इ॒मा ह॒व्या जु॑षन्त नः ॥११॥
स्तो॒त्रम् । इन्द्रः॑ । म॒रुत्ऽग॑णः । त्वष्टृ॑ऽमान् । मि॒त्रः । अ॒र्य॒मा । इ॒मा । ह॒व्या । जु॒ष॒न्त॒ । नः॒ ॥
Mantra 12
इ॒मं नो॑ अग्ने अध्व॒रं होत॑र्वयुन॒शो य॑ज। चि॒कि॒त्वान्दैव्यं॒ जन॑म् ॥१२॥
इ॒मम् । नः॒ । अ॒ग्ने॒ । अ॒ध्व॒रम् । होतः॑ । व॒यु॒न॒ऽशः । य॒ज॒ । चि॒कि॒त्वान् । दैव्य॑म् । जन॑म् ॥
Mantra 13
विश्वे॑ देवाः शृणु॒तेमं हवं॑ मे॒ ये अ॒न्तरि॑क्षे॒ य उप॒ द्यवि॒ ष्ठ। ये अ॑ग्निजि॒ह्वा उ॒त वा॒ यज॑त्रा आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयध्वम् ॥१३॥
विश्वे॑ । दे॒वाः॒ । शृ॒णु॒त । इ॒मम् । हव॑म् । मे॒ । ये । अ॒न्तरि॑क्षे । ये । उप॑ । द्यवि॑ । स्थ । ये । अ॒ग्नि॒ऽजि॒ह्वाः । उ॒त । वा॒ । यज॑त्राः । आ॒ऽसद्य॑ । अ॒स्मिन् । ब॒र्हिषि॑ । मा॒द॒य॒ध्व॒म् ॥
Mantra 14
विश्वे॑ दे॒वा मम॑ शृण्वन्तु य॒ज्ञिया॑ उ॒भे रोद॑सी अ॒पां नपा॑च्च॒ मन्म॑। मा वो॒ वचां॑सि परि॒चक्ष्या॑णि वोचं सु॒म्नेष्विद्वो॒ अन्त॑मा मदेम ॥१४॥
विश्वे॑ । दे॒वाः । मम॑ । शृ॒ण्व॒न्तु॒ । य॒ज्ञियाः॑ । उ॒भे इति॑ । रोद॑सी॒ इति॑ । अ॒पाम् । नपा॑त् । च॒ । मन्म॑ । मा । वः॒ । वचां॑सि । प॒रि॒ऽचक्ष्या॑णि । वो॒च॒म् । सु॒म्नेषु॑ । इत् । वः॒ । अन्त॑माः । म॒दे॒म॒ ॥
Mantra 15
ये के च॒ ज्मा म॒हिनो॒ अहि॑माया दि॒वो ज॑ज्ञि॒रे अ॒पां स॒धस्थे॑। ते अ॒स्मभ्य॑मि॒षये॒ विश्व॒मायुः॒ क्षप॑ उ॒स्रा व॑रिवस्यन्तु दे॒वाः ॥१५॥
ये । के । च॒ । ज्मा । म॒हिनः॑ । अहि॑ऽमायाः । दि॒वः । ज॒ज्ञि॒रे । अ॒पाम् । स॒धऽस्थे॑ । ते । अ॒स्मभ्य॑म् । इ॒षये॑ । विश्व॑म् । आयुः॑ । क्षपः॑ । उ॒स्राः । व॒रि॒व॒स्य॒न्तु॒ । दे॒वाः ॥
Mantra 16
अग्नी॑पर्जन्या॒वव॑तं॒ धियं॑ मे॒ऽस्मिन्हवे॑ सुहवा सुष्टु॒तिं नः॑। इळा॑म॒न्यो ज॒नय॒द्गर्भ॑म॒न्यः प्र॒जाव॑ती॒रिष॒ आ ध॑त्तम॒स्मे ॥१६॥
अग्नी॑पर्जन्यौ । अव॑तम् । धिय॑म् । मे॒ । अ॒स्मिन् । हवे॑ । सु॒ऽह॒वा॒ । सु॒ऽस्तु॒तिम् । नः॒ । इळा॑म् । अ॒न्यः । ज॒नय॑त् । गर्भ॑म् । अ॒न्यः । प्र॒जाऽव॑तीः । इषः॑ । आ । ध॒त्त॒म् । अ॒स्मे इति॑ ॥
Mantra 17
स्ती॒र्णे ब॒र्हिषि॑ समिधा॒ने अ॒ग्नौ सू॒क्तेन॑ म॒हा नम॒सा वि॑वासे। अ॒स्मिन्नो॑ अ॒द्य वि॒दथे॑ यजत्रा॒ विश्वे॑ देवा ह॒विषि॑ मादयध्वम् ॥१७॥
स्ती॒र्णे । ब॒र्हिषि॑ । स॒म्ऽइ॒धा॒ने । अ॒ग्नौ । सु॒ऽउ॒क्तेन॑ । म॒हा । नम॑सा । वि॒वा॒से॒ । अ॒स्मिन् । नः॒ । अ॒द्य । वि॒दथे॑ । य॒ज॒त्राः॒ । विश्वे॑ । दे॒वाः॒ । ह॒विषि॑ । मा॒द॒य॒ध्व॒म् ॥