Mantra 1
य॒ज्ञाय॑ज्ञा वो अ॒ग्नये॑ गि॒रागि॑रा च॒ दक्ष॑से। प्रप्र॑ व॒यम॒मृतं॑ जा॒तवे॑दसं प्रि॒यं मि॒त्रं न शं॑सिषम् ॥१॥
य॒ज्ञाऽय॑ज्ञा । वः॒ । अ॒ग्नये॑ । गि॒राऽगि॑रा । च॒ । दक्ष॑से । प्रऽप्र॑ । व॒यम् । अ॒मृत॑म् । जा॒तऽवे॑दसम् । प्रि॒यम् । मि॒त्रम् । न । शं॒सि॒ष॒म् ॥
Mantra 2
ऊ॒र्जो नपा॑तं॒ स हि॒नायम॑स्म॒युर्दाशे॑म ह॒व्यदा॑तये। भुव॒द्वाजे॑ष्ववि॒ता भुव॑द्वृ॒ध उ॒त त्रा॒ता त॒नूना॑म् ॥२॥
ऊर्जः । नपा॑तम् । सः । हि॒न । अ॒यम् । अ॒स्म॒ऽयुः । दाशे॑म । ह॒व्यऽदा॑तये । भुव॑त् । वाजे॑षु । अ॒वि॒ता । भुव॑त् । वृ॒धः । उ॒त । त्रा॒ता । त॒नूना॑म् ॥
Mantra 3
वृषा॒ ह्य॑ग्ने अ॒जरो॑ म॒हान्वि॒भास्य॒र्चिषा॑। अज॑स्रेण शो॒चिषा॒ शोशु॑चच्छुचे सुदी॒तिभिः॒ सु दी॑दिहि ॥३॥
वृषा॑ । हि । अ॒ग्ने॒ । अ॒जरः॑ । म॒हान् । वि॒ऽभासि॑ । अ॒र्चिषा॑ । अज॑स्रेण । शो॒चिषा॑ । शोशु॑चत् । शु॒चे॒ । सु॒दी॒तिऽभिः॑ । सु । दी॒दि॒हि॒ ॥
Mantra 4
म॒हो दे॒वान्यज॑सि॒ यक्ष्या॑नु॒षक्तव॒ क्रत्वो॒त दं॒सना॑। अ॒र्वाचः॑ सीं कृणुह्य॒ग्नेऽव॑से॒ रास्व॒ वाजो॒त वं॑स्व ॥४॥
म॒हः । दे॒वान् । यज॑सि । यक्षि॑ । आ॒नु॒षक् । तव॑ । क्रत्वा॑ । उ॒त । दं॒सना॑ । अ॒र्वाचः॑ । सी॒म् । कृ॒णु॒हि॒ । अ॒ग्ने॒ । अव॑से । रास्व॑ । वाजा॑ । उ॒त । वं॒स्व॒ ॥
Mantra 5
यमापो॒ अद्र॑यो॒ वना॒ गर्भ॑मृ॒तस्य॒ पिप्र॑ति। सह॑सा॒ यो म॑थि॒तो जाय॑ते॒ नृभिः॑ पृथि॒व्या अधि॒ सान॑वि ॥५॥
यम् । आपः॑ । अद्र॑यः । वना॑ । गर्भ॑म् । ऋ॒तस्य॑ । पिप्र॑ति । सह॑सा । यः । म॒थि॒तः । जाय॑ते । नृऽभिः॑ । पृ॒थि॒व्याः । अधि॑ । सान॑वि ॥
Mantra 6
आ यः प॒प्रौ भा॒नुना॒ रोद॑सी उ॒भे धू॒मेन॑ धावते दि॒वि। ति॒रस्तमो॑ ददृश॒ ऊर्म्या॒स्वा श्या॒वास्व॑रु॒षो वृषा श्या॒वा अ॑रु॒षो वृषा॑ ॥६॥
आ । यः । प॒प्रौ । भा॒नुना॑ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । धू॒मेन॑ । धा॒व॒ते॒ । दि॒वि । ति॒रः । तमः॑ । द॒दृ॒शे॒ । ऊर्म्या॑सु । आ । श्या॒वासु॑ । अ॒रु॒षः । वृषा॑ । आ । श्या॒वाः । अ॒रु॒षः । वृषा॑ ॥
Mantra 7
बृ॒हद्भि॑रग्ने अ॒र्चिभिः॑ शु॒क्रेण॑ देव शो॒चिषा॑। भ॒रद्वा॑जे समिधा॒नो य॑विष्ठ्य रे॒वन्नः॑ शुक्र दीदिहि द्यु॒मत्पा॑वक दीदिहि ॥७॥
बृ॒हत्ऽभिः॑ । अ॒ग्ने॒ । अ॒र्चिऽभिः॑ । शु॒क्रेण॑ । दे॒व॒ । शो॒चिषा॑ । भ॒रत्ऽवा॑जे । स॒म्ऽइ॒धा॒नः । य॒वि॒ष्ठ्य॒ । रे॒वत् । नः॒ । शु॒क्र॒ । दी॒दि॒हि॒ । द्यु॒ऽमत् । पा॒व॒क॒ । दी॒दि॒हि॒ ॥
Mantra 8
विश्वा॑सां गृ॒हप॑तिर्वि॒शाम॑सि॒ त्वम॑ग्ने॒ मानु॑षीणाम्। श॒तं पू॒र्भिर्य॑विष्ठ पा॒ह्यंह॑सः समे॒द्धारं॑ श॒तं हिमाः॑ स्तो॒तृभ्यो॒ ये च॒ दद॑ति ॥८॥
विश्वा॑साम् । गृ॒हऽप॑तिः । वि॒शाम् । अ॒सि॒ । त्वम् । अ॒ग्ने॒ । मानु॑षीणाम् । श॒तम् । पूः॒ऽभिः । य॒वि॒ष्ठ॒ । पा॒हि॒ । अंह॑सः । स॒म्ऽए॒द्धार॑म् । श॒तम् । हिमाः॑ । स्तो॒तृऽभ्यः॑ । ये । च॒ । दद॑ति ॥
Mantra 9
त्वं न॑श्चि॒त्र ऊ॒त्या वसो॒ राधां॑सि चोदय। अ॒स्य रा॒यस्त्वम॑ग्ने र॒थीर॑सि वि॒दा गा॒धं तु॒चे तु नः॑ ॥९॥
त्वम् । नः॒ । चि॒त्रः । ऊ॒त्या । वसो॒ इति॑ । राधां॑सि । चो॒द॒य॒ । अ॒स्य । रा॒यः । त्वम् । अ॒ग्ने॒ । र॒थीः । अ॒सि॒ । वि॒दाः । गा॒धम् । तु॒चे । तु । नः॒ ॥
Mantra 10
पर्षि॑ तो॒कं तन॑यं प॒र्तृभि॒ष्ट्वमद॑ब्धै॒रप्र॑युत्वभिः। अग्ने॒ हेळां॑सि॒ दैव्या॑ युयोधि॒ नोऽदे॑वानि॒ ह्वरां॑सि च ॥१०॥
पर्षि॑ । तो॒कम् । तन॑यम् । प॒र्तृऽभिः॑ । त्वम् । अद॑ब्धैः । अप्र॑युत्वऽभिः । अग्ने॑ । हेलां॑सि । दैव्या॑ । यु॒यो॒धि॒ । नः॒ । अदे॑वानि । ह्वरां॑सि । च॒ ॥
Mantra 11
आ स॑खायः सब॒र्दुघां॑ धे॒नुम॑जध्व॒मुप॒ नव्य॑सा॒ वचः॑। सृ॒जध्व॒मन॑पस्फुराम् ॥११॥
आ । स॒खा॒यः॒ । स॒बः॒ऽदुघा॑म् । धे॒नुम् । अ॒ज॒ध्व॒म् । उप॑ । नव्य॑सा । वचः॑ । सृ॒जध्व॑म् । अन॑पऽस्फुराम् ॥
Mantra 12
या शर्धा॑य॒ मारु॑ताय॒ स्वभा॑नवे॒ श्रवोऽमृ॑त्यु॒ धुक्ष॑त। या मृ॑ळी॒के म॒रुतां॑ तु॒राणां॒ या सु॒म्नैरे॑व॒याव॑री ॥१२॥
या । शर्धा॑य । मारु॑ताय । स्वऽभा॑नवे । श्रवः॑ । अमृ॑त्यु । धुक्ष॑त । या । मृ॒ळी॒के । म॒रुता॑म् । तु॒राणा॑म् । या । सु॒म्नैः । ए॒व॒ऽयाव॑री ॥
Mantra 13
भ॒रद्वा॑जा॒याव॑ धुक्षत द्वि॒ता। धे॒नुं च॑ वि॒श्वदो॑हस॒मिषं॑ च वि॒श्वभो॑जसम् ॥१३॥
भ॒रत्ऽवा॑जाय । अव॑ । धु॒क्ष॒त॒ । द्वि॒ता । धे॒नुम् । च॒ । वि॒श्वऽदो॑हसम् । इष॑म् । च॒ । वि॒श्वऽभो॑जसम् ॥
Mantra 14
तं व॒ इन्द्रं॒ न सु॒क्रतुं॒ वरु॑णमिव मा॒यिन॑म्। अ॒र्य॒मणं॒ न म॒न्द्रं सृ॒प्रभो॑जसं॒ विष्णुं॒ न स्तु॑ष आ॒दिशे॑ ॥१४॥
तम् । वः॒ । इन्द्र॑म् । न । सु॒ऽक्रतु॑म् । वरु॑णम्ऽइव । मा॒यिन॑म् । अ॒र्य॒मण॑म् । न । म॒न्द्रम् । सृ॒प्रऽभो॑जसम् । विष्णु॑म् । न । स्तु॒षे॒ । आ॒ऽदिशे॑ ॥
Mantra 15
त्वे॒षं शर्धो॒ न मारु॑तं तुवि॒ष्वण्य॑न॒र्वाणं॑ पू॒षणं॒ सं यथा॑ श॒ता। सं स॒हस्रा॒ कारि॑षच्चर्ष॒णिभ्य॒ आँ आ॒विर्गू॒ळ्हा वसू॑ करत्सु॒वेदा॑ नो॒ वसू॑ करत् ॥१५॥
त्वे॒षम् । शर्धः॑ । न । मारु॑तम् । तु॒वि॒ऽस्वणि॑ । अ॒न॒र्वाण॑म् । पू॒षण॑म् । सम् । यथा॑ । श॒ता । सम् । स॒हस्रा॑ । कारि॑षत् । च॒र्ष॒णिऽभ्यः॑ । आ । आ॒विः । गू॒ळ्हा । वसु॑ । क॒र॒त् । सु॒ऽवेदा॑ । नः॒ । वसु॑ । क॒र॒त् ॥
Mantra 16
आ मा॑ पूष॒न्नुप॑ द्रव॒ शंसि॑षं॒ नु ते॑ अपिक॒र्ण आ॑घृणे। अ॒घा अ॒र्यो अरा॑तयः ॥१६॥
आ । मा॒ । पू॒ष॒न् । उप॑ । द्र॒व॒ । शंसि॑षम् । नु । ते॒ । अ॒पि॒ऽक॒र्णे । आ॒घृ॒णे॒ । अ॒घाः । अ॒र्यः । अरा॑तयः ॥
Mantra 17
म का॑क॒म्बीर॒मुद्वृ॑हो॒ वन॒स्पति॒मश॑स्ती॒र्वि हि नीन॑शः। मोत सूरो॒ अह॑ ए॒वा च॒न ग्री॒वा आ॒दध॑ते॒ वेः ॥१७॥
मा । का॒क॒म्बीर॑म् । उत् । वृ॒हः॒ । वन॒स्पति॑म् । अश॑स्तीः । वि । हि । नीन॑शः । मा । उ॒त । सूरः॑ । अह॒रिति॑ । ए॒व । च॒न । ग्री॒वा । आ॒ऽदध॑ते । वेः ॥
Mantra 18
दृते॑रिव तेऽवृ॒कम॑स्तु स॒ख्यम्। अच्छि॑द्रस्य दध॒न्वतः॒ सुपू॑र्णस्य दध॒न्वतः॑ ॥१८॥
दृतेः॑ऽइव । ते । अ॒वृ॒कम् । अ॒स्तु॒ । स॒ख्यम् । अच्छि॑द्रस्य । द॒ध॒न्ऽवतः॑ । सुऽपू॑र्णस्य । द॒ध॒न्ऽवतः॑ ॥
Mantra 19
प॒रो हि मर्त्यै॒रसि॑ स॒मो दे॒वैरु॒त श्रि॒या। अ॒भि ख्यः॑ पूष॒न्पृत॑नासु न॒स्त्वमवा॑ नू॒नं यथा॑ पु॒रा ॥१९॥
प॒रः । हि । मर्त्यैः॑ । असि॑ । स॒मः । दे॒वैः । उ॒त । श्रि॒या । अ॒भि । ख्यः॒ । पू॒ष॒न् । पृत॑नासु । नः॒ । त्वम् । अव॑ । नू॒नम् । यथा॑ । पु॒रा ॥
Mantra 20
वा॒मी वा॒मस्य॑ धूतयः॒ प्रणी॑तिरस्तु सू॒नृता॑। दे॒वस्य॑ वा मरुतो॒ मर्त्य॑स्य वेजा॒नस्य॑ प्रयज्यवः ॥२०॥
वा॒मी । वा॒मस्य॑ । धू॒त॒यः॒ । प्रऽनी॑तिः । अ॒स्तु॒ । सू॒नृता॑ । दे॒वस्य॑ । वा॒ । म॒रु॒तः॒ । मर्त्य॑स्य । वे॒जा॒नस्य॑ । प्र॒ऽय॒ज्य॒वः॒ ॥
Mantra 21
स॒द्यश्चि॒द्यस्य॑ चर्कृ॒तिः परि॒ द्यां दे॒वो नैति॒ सूर्यः॑। त्वे॒षं शवो॑ दधिरे॒ नाम॑ य॒ज्ञियं॑ म॒रुतो॑ वृत्र॒हं शवो॒ ज्येष्ठं॑ वृत्र॒हं शवः॑ ॥२१॥
स॒द्यः । चि॒त् । यस्य॑ । च॒र्कृ॒तिः । परि॑ । द्याम् । दे॒वः । न । एति॑ । सूर्यः॑ । त्वे॒षम् । शवः॑ । द॒धि॒रे॒ । नाम॑ । य॒ज्ञिय॑म् । म॒रुतः॑ । वृ॒त्र॒ऽहम् । शवः॑ । ज्येष्ठ॑म् । वृ॒त्र॒ऽहम् । शवः॑ ॥
Mantra 22
स॒कृद्ध॒ द्यौर॑जायत स॒कृद्भूमि॑रजायत। पृश्न्या॑ दु॒ग्धं स॒कृत्पय॒स्तद॒न्यो नानु॑ जायते ॥२२॥
स॒कृत् । ह॒ । द्यौः । अ॒जा॒य॒त॒ । स॒कृत् । भूमिः॑ । अ॒जा॒य॒त॒ । पृश्न्याः॑ । दु॒ग्धम् । स॒कृत् । पयः॑ । तत् । अ॒न्यः । न । अनु॑ । जा॒य॒ते॒ ॥