Mantra with Swara
सु॒तः सोमो॒ असु॑तादिन्द्र॒ वस्या॑न॒यं श्रेया॑ञ्चिकि॒तुषे॒ रणा॑य। ए॒तं ति॑तिर्व॒ उप॑ याहि य॒ज्ञं तेन॒ विश्वा॒स्तवि॑षी॒रा पृ॑णस्व ॥४॥
सु॒तः । सोमः॑ । असु॑तात् । इ॒न्द्र॒ । वस्या॑न् । अ॒यम् । श्रेया॑न् । चि॒कि॒तुषे॑ । रणा॑य । ए॒तम् । ति॒ति॒र्वः॒ । उप॑ । या॒हि॒ । य॒ज्ञम् । तेन॑ । विश्वाः॑ । तवि॑षीः । आ । पृ॒ण॒स्व॒ ॥
Mantra without Swara
सुतः सोमो असुतादिन्द्र वस्यानयं श्रेयाञ्चिकितुषे रणाय। एतं तितिर्व उप याहि यज्ञं तेन विश्वास्तविषीरा पृणस्व ॥
सुतः। सोमः। असुतात्। इन्द्र। वस्यान्। अयम्। श्रेयान्। चिकितुषे। रणाय। एतम्। तितिर्वः। उप। याहि। यज्ञम्। तेन। विश्वाः। तविषीः। आ। पृणस्व ॥४॥
Ashtak » 4
Adhyay » 7
Varga » 13
Mantra » 4
