Mantra with Swara
अस्य॑ पिब॒ यस्य॑ जज्ञा॒न इ॑न्द्र॒ मदा॑य॒ क्रत्वे॒ अपि॑बो विरप्शिन्। तमु॑ ते॒ गावो॒ नर॒ आपो॒ अद्रि॒रिन्दुं॒ सम॑ह्यन्पी॒तये॒ सम॑स्मै ॥२॥
अस्य॑ । पि॒ब॒ । यस्य॑ । ज॒ज्ञ॒नः । न्द्र॒ । मदा॑य । क्रत्वे॑ । अपि॑बः । वि॒ऽर॒प्शि॒न् । तम् । ऊँ॒ इति॑ । ते॒ । गावः॑ । नरः॑ । आपः॑ । अद्रिः॑ । इन्दु॑म् । सम् । अ॒ह्य॒न् । पी॒तये॑ । सम् । अ॒स्मै॒ ॥
Mantra without Swara
अस्य पिब यस्य जज्ञान इन्द्र मदाय क्रत्वे अपिबो विरप्शिन्। तमु ते गावो नर आपो अद्रिरिन्दुं समह्यन्पीतये समस्मै ॥
अस्य। पिब। यस्य। जज्ञनः। इन्द्र। मदाय। क्रत्वे। अपिबः। विऽरप्शिन्। तम्। ऊँ इति। ते। गावः। नरः। आपः। अद्रिः। इन्दुम्। सम्। अह्यन्। पीतये। सम्। अस्मै ॥२॥
Ashtak » 4
Adhyay » 7
Varga » 12
Mantra » 2
