Mantra with Swara
अ॒यं द्यो॑तयद॒द्युतो॒ व्य१॒॑क्तून्दो॒षा वस्तोः॑ श॒रद॒ इन्दु॑रिन्द्र। इ॒मं के॒तुम॑दधु॒र्नू चि॒दह्नां॒ शुचि॑जन्मन उ॒षस॑श्चकार ॥३॥
अ॒यम् । द्यो॒त॒य॒त् । अ॒द्युतः॑ । वि । अ॒क्तून् । दो॒षा । वस्तोः॑ । श॒रदः॑ । इन्दुः॑ । इ॒न्द्र॒ । इ॒मम् । के॒तुम् । अ॒द॒धुः॒ । नु । चि॒त् । अह्ना॑म् । शुचि॑ऽजन्मनः । उ॒षसः॑ । च॒का॒र॒ ॥
Mantra without Swara
अयं द्योतयदद्युतो व्य१क्तून्दोषा वस्तोः शरद इन्दुरिन्द्र। इमं केतुमदधुर्नू चिदह्नां शुचिजन्मन उषसश्चकार ॥
अयम्। द्योतयत्। अद्युतः। वि। अक्तून्। दोषा। वस्तोः। शरदः। इन्दुः। इन्द्र। इमम्। केतुम्। अदधुः। नु। चित्। अह्नाम्। शुचिऽजन्मनः। उषसः। चकार ॥३॥
Ashtak » 4
Adhyay » 7
Varga » 11
Mantra » 3
