Mantra with Swara
दू॒राच्चि॒दा व॑सतो अस्य॒ कर्णा॒ घोषा॒दिन्द्र॑स्य तन्यति ब्रुवा॒णः। एयमे॑नं दे॒वहू॑तिर्ववृत्यान्म॒द्र्य१॒॑गिन्द्र॑मि॒यमृ॒च्यमा॑ना ॥२॥
दू॒रात् । चि॒त् । आ । व॒स॒तः॒ । अ॒स्य॒ । कर्णा॑ । घोषा॑त् । इन्द्र॑स्य । त॒न्य॒ति॒ । ब्रु॒वा॒णः । आ । इ॒यम् । ए॒न॒म् । दे॒वऽहू॑तिः । व॒वृ॒त्या॒त् । म॒द्र्य॑क् । इन्द्र॑म् । इ॒यम् । ऋ॒च्यमा॑ना ॥
Mantra without Swara
दूराच्चिदा वसतो अस्य कर्णा घोषादिन्द्रस्य तन्यति ब्रुवाणः। एयमेनं देवहूतिर्ववृत्यान्मद्र्य१गिन्द्रमियमृच्यमाना ॥
दूरात्। चित्। आ। वसतः। अस्य। कर्णा। घोषात्। इन्द्रस्य। तन्यति। ब्रुवाणः। आ। इयम्। एनम्। देवऽहूतिः। ववृत्यात्। मद्र्यक्। इन्द्रम्। इयम्। ऋच्यमाना ॥२॥
Ashtak » 4
Adhyay » 7
Varga » 10
Mantra » 2
