Mantra with Swara
आ॒स॒स्रा॒णासः॑ शवसा॒नमच्छेन्द्रं॑ सुच॒क्रे र॒थ्या॑सो॒ अश्वाः॑। अ॒भि श्रव॒ ऋज्य॑न्तो वहेयु॒र्नू चि॒न्नु वा॒योर॒मृतं॒ वि द॑स्येत् ॥३॥
आ॒स॒स्रा॒णासः॑ । श॒व॒सा॒नम् । अच्छ॑ । इन्द्र॑म् । सु॒ऽच॒क्रे । र॒थ्या॑सः । अश्वाः॑ । अ॒भि । श्रवः॑ । ऋज्य॑न्तः । व॒हे॒युः॒ । नु । चि॒त् । नु । वा॒योः । अ॒मृत॑म् । वि । द॒स्ये॒त् ॥
Mantra without Swara
आसस्राणासः शवसानमच्छेन्द्रं सुचक्रे रथ्यासो अश्वाः। अभि श्रव ऋज्यन्तो वहेयुर्नू चिन्नु वायोरमृतं वि दस्येत् ॥
आसस्राणासः। शवसानम्। अच्छ। इन्द्रम्। सुऽचक्रे। रथ्यासः। अश्वाः। अभि। श्रवः। ऋज्यन्तः। वहेयुः। नु। चित्। नु। वायोः। अमृतम्। वि। दस्येत् ॥३॥
Ashtak » 4
Adhyay » 7
Varga » 9
Mantra » 3
