Mantra with Swara
अ॒र्वाग्रथं॑ वि॒श्ववा॑रं त उ॒ग्रेन्द्र॑ यु॒क्तासो॒ हर॑यो वहन्तु। की॒रिश्चि॒द्धि त्वा॒ हव॑ते॒ स्व॑र्वानृधी॒महि॑ सध॒माद॑स्ते अ॒द्य ॥१॥
अ॒र्वाक् । रथ॑म् । वि॒श्वऽवा॑रम् । ते॒ । उ॒ग्र॒ । इन्द्र॑ । यु॒क्तासः॑ । हर॑यः । व॒ह॒न्तु॒ । की॒रिः । चि॒त् । हि । त्वा॒ । हव॑ते । स्वः॑ऽवान् । ऋ॒धी॒महि॑ । स॒ध॒ऽमादः॑ । ते॒ । अ॒द्य ॥
Mantra without Swara
अर्वाग्रथं विश्ववारं त उग्रेन्द्र युक्तासो हरयो वहन्तु। कीरिश्चिद्धि त्वा हवते स्वर्वानृधीमहि सधमादस्ते अद्य ॥
अर्वाक्। रथम्। विश्वऽवारम्। ते। उग्र। इन्द्र। युक्तासः। हरयः। वहन्तु। कीरिः। चित्। हि। त्वा। हवते। स्वःऽवान्। ऋधीमहि। सधऽमादः। ते। अद्य ॥१॥
Ashtak » 4
Adhyay » 7
Varga » 9
Mantra » 1
