Mantra with Swara
सं च॒ त्वे ज॒ग्मुर्गिर॑ इन्द्र पू॒र्वीर्वि च॒ त्वद्य॑न्ति वि॒भ्वो॑ मनी॒षाः। पु॒रा नू॒नं च॑ स्तु॒तय॒ ऋषी॑णां पस्पृ॒ध्र इन्द्रे॒ अध्यु॑क्था॒र्का ॥१॥
सम् । च॒ । त्वे इति॑ । ज॒ग्मुः । गिरः॑ । इ॒न्द्र॒ । पू॒र्वीः । वि । च॒ । त्वत् । य॒न्ति॒ । वि॒ऽभ्वः॑ । म॒नी॒षाः । पु॒रा । नू॒नम् । च॒ । स्तु॒तयः॑ । ऋषी॑णाम् । प॒स्पृ॒ध्रे । इन्द्रे॑ । अधि॑ । उ॒क्थ॒ऽअ॒र्का ॥
Mantra without Swara
सं च त्वे जग्मुर्गिर इन्द्र पूर्वीर्वि च त्वद्यन्ति विभ्वो मनीषाः। पुरा नूनं च स्तुतय ऋषीणां पस्पृध्र इन्द्रे अध्युक्थार्का ॥
सम्। च। त्वे इति। जग्मुः। गिरः। इन्द्र। पूर्वीः। वि। च। त्वत्। यन्ति। विऽभ्वः। मनीषाः। पुरा। नूनम्। च। स्तुतयः। ऋषीणाम्। पस्पृध्रे। इन्द्रे। अधि। उक्थऽअर्का ॥१॥
Ashtak » 4
Adhyay » 7
Varga » 6
Mantra » 1
