Mantra with Swara
त्वां ही॒३॒॑न्द्राव॑से॒ विवा॑चो॒ हव॑न्ते चर्ष॒णयः॒ शूर॑सातौ। त्वं विप्रे॑भि॒र्वि प॒णीँर॑शाय॒स्त्वोत॒ इत्सनि॑ता॒ वाज॒मर्वा॑ ॥२॥
त्वाम् । हि । इ॒न्द्र॒ । अव॑से । विवा॑चः । हव॑न्ते । च॒र्ष॒णयः॑ । शूर॑ऽसातौ । त्वम् । विप्रे॑भिः । वि । प॒णीन् । अ॒शा॒यः॒ । त्वाऽऊ॑तः । इत् । सनि॑ता । वाज॑म् । अर्वा॑ ॥
Mantra without Swara
त्वां ही३न्द्रावसे विवाचो हवन्ते चर्षणयः शूरसातौ। त्वं विप्रेभिर्वि पणीँरशायस्त्वोत इत्सनिता वाजमर्वा ॥
त्वाम्। हि। इन्द्र। अवसे। विवाचः। हवन्ते। चर्षणयः। शूरऽसातौ। त्वम्। विप्रेभिः। वि। पणीन्। अशायः। त्वाऽऊतः। इत्। सनिता। वाजम्। अर्वा ॥२॥
Ashtak » 4
Adhyay » 7
Varga » 5
Mantra » 2
