Mantra with Swara
स मा॒तरा॒ सूर्ये॑णा कवी॒नामवा॑सयद्रु॒जदद्रिं॑ गृणा॒नः। स्वा॒धीभि॒र्ऋक्व॑भिर्वावशा॒न उदु॒स्रिया॑णामसृजन्नि॒दान॑म् ॥२॥
सः । मा॒तरा॑ । सूर्ये॑ण । क॒वी॒नाम् । अवा॑सयत् । रु॒जत् । अद्रि॑म् । गृ॒णा॒नः । सु॒ऽआ॒धीभिः॑ । ऋक्व॑ऽभिः । वा॒व॒शा॒नः । उत् । उ॒स्रिया॑णाम् । अ॒सृ॒ज॒त् । नि॒ऽदान॑म् ॥
Mantra without Swara
स मातरा सूर्येणा कवीनामवासयद्रुजदद्रिं गृणानः। स्वाधीभिर्ऋक्वभिर्वावशान उदुस्रियाणामसृजन्निदानम् ॥
सः। मातरा। सूर्येण। कवीनाम्। अवासयत्। रुजत्। अद्रिम्। गृणानः। सुऽआधीभिः। ऋक्वऽभिः। वावशानः। उत्। उस्रियाणाम्। असृजत्। निऽदानम् ॥२॥
Ashtak » 4
Adhyay » 7
Varga » 4
Mantra » 2
