Mantra with Swara
स सोम॒ आमि॑श्लतमः सु॒तो भू॒द्यस्मि॑न्प॒क्तिः प॒च्यते॒ सन्ति॑ धा॒नाः। इन्द्रं॒ नरः॑ स्तु॒वन्तो॑ ब्रह्मका॒रा उ॒क्था शंस॑न्तो दे॒ववा॑ततमाः ॥४॥
सः । सोमः॑ । आमि॑श्लऽतमः । सु॒तः । भू॒त् । यस्मि॑न् । प॒क्तिः । प॒च्यते॑ । सन्ति॑ । धा॒नाः । इन्द्र॑म् । नरः॑ । स्तु॒वन्तः॑ । ब्र॒ह्म॒ऽका॒राः । उ॒क्था । शंस॑न्तः । दे॒ववा॑तऽतमाः ॥
Mantra without Swara
स सोम आमिश्लतमः सुतो भूद्यस्मिन्पक्तिः पच्यते सन्ति धानाः। इन्द्रं नरः स्तुवन्तो ब्रह्मकारा उक्था शंसन्तो देववाततमाः ॥
सः। सोमः। आमिश्लऽतमः। सुतः। भूत्। यस्मिन्। पक्तिः। पच्यते। सन्ति। धानाः। इन्द्रम्। नरः। स्तुवन्तः। ब्रह्मऽकाराः। उक्था। शंसन्तः। देववातऽतमाः ॥४॥
Ashtak » 4
Adhyay » 7
Varga » 1
Mantra » 4
