Mantra 1
आ गावो॑ अग्मन्नु॒त भ॒द्रम॑क्र॒न्त्सीद॑न्तु गो॒ष्ठे र॒णय॑न्त्व॒स्मे। प्र॒जाव॑तीः पुरु॒रूपा॑ इ॒ह स्यु॒रिन्द्रा॑य पू॒र्वीरु॒षसो॒ दुहा॑नाः ॥१॥
आ । गावः॑ । अ॒ग्म॒न् । उ॒त । भ॒द्रम् । अ॒क्र॒न् । सीद॑न्तु । गो॒ऽस्थे । र॒णय॑न्तु । अ॒स्मे इति॑ । प्र॒जाऽव॑तीः । पु॒रु॒ऽरूपाः॑ । इ॒ह । स्युः॒ । इन्द्रा॑य । पू॒र्वीः । उ॒षसः॑ । दुहा॑नाः ॥
Mantra 2
इन्द्रो॒ यज्व॑ने पृण॒ते च॑ शिक्ष॒त्युपेद्द॑दाति॒ न स्वं मु॑षायति। भूयो॑भूयो र॒यिमिद॑स्य व॒र्धय॒न्नभि॑न्ने खि॒ल्ये नि द॑धाति देव॒युम् ॥२॥
इन्द्रः॑ । यज्व॑ने । पृ॒ण॒ते । च॒ । शि॒क्ष॒ति॒ । उप॑ । इत् । द॒दा॒ति॒ । न । स्वम् । मु॒षा॒य॒ति॒ । भूयः॑ऽभूयः । र॒यिम् । इत् । अ॒स्य॒ । व॒र्धय॑न् । अभि॑न्ने । खि॒ल्ये । नि । द॒धा॒ति॒ । दे॒व॒ऽयुम् ॥
Mantra 3
न ता न॑शन्ति॒ न द॑भाति॒ तस्क॑रो॒ नासा॑मामि॒त्रो व्यथि॒रा द॑धर्षति। दे॒वाँश्च॒ याभि॒र्यज॑ते॒ ददा॑ति च॒ ज्योगित्ताभिः॑ सचते॒ गोप॑तिः स॒ह ॥३॥
न । ताः । न॒श॒न्ति॒ । न । द॒भा॒ति॒ । तस्क॑रः । न । आ॒सा॒म् । आ॒मि॒त्रः । व्यथिः॑ । आ । द॒ध॒र्ष॒ति॒ । दे॒वान् । च॒ । याभिः॑ । यज॑ते । ददा॑ति । च॒ । ज्योक् । इत् । ताभिः॑ । स॒च॒ते॒ । गोऽप॑तिः । स॒ह ॥
Mantra 4
न ता अर्वा॑ रे॒णुक॑काटो अश्नुते॒ न सं॑स्कृत॒त्रमुप॑ यन्ति॒ ता अ॒भि। उ॒रु॒गा॒यमभ॑यं॒ तस्य॒ ता अनु॒ गावो॒ मर्त॑स्य॒ वि च॑रन्ति॒ यज्व॑नः ॥४॥
न । ताः । अर्वा॑ । रे॒णुऽक॑काटः । अ॒श्नु॒ते॒ । न । सं॒स्कृ॒त॒ऽत्रम् । उप॑ । य॒न्ति॒ । ताः । अ॒भि । उ॒रु॒ऽगा॒यम् । अभ॑यम् । तस्य॑ । ताः । अनु॑ । गावः॑ । मर्त॑स्य । वि । च॒र॒न्ति॒ । यज्व॑नः ॥
Mantra 5
गावो॒ भगो॒ गाव॒ इन्द्रो॑ मे अच्छा॒न् गावः॒ सोम॑स्य प्रथ॒मस्य॑ भ॒क्षः। इ॒मा या गावः॒ स ज॑नास॒ इन्द्र॑ इ॒च्छामीद्धृ॒दा मन॑सा चि॒दिन्द्र॑म् ॥५॥
गावः॑ । भगः॑ । गावः॑ । इन्द्रः॑ । मे॒ । अ॒च्छा॒न् । गावः॑ । सोम॑स्य । प्र॒थ॒मस्य॑ । भ॒क्षः । इ॒माः । याः । गावः॑ । सः । ज॒ना॒सः॒ । इन्द्रः॑ । इ॒च्छामि॑ । इत् । हृ॒दा । मन॑सा । चि॒त् । इन्द्र॑म् ॥
Mantra 6
यू॒यं गा॑वो मेदयथा कृ॒शं चि॑दश्री॒रं चि॑त्कृणुथा सु॒प्रती॑कम्। भ॒द्रं गृ॒हं कृ॑णुथ भद्रवाचो बृ॒हद्वो॒ वय॑ उच्यते स॒भासु॑ ॥६॥
यू॒यम् । गा॒वः॒ । मे॒द॒य॒थ॒ । कृ॒शम् । चि॒त् । अ॒श्री॒रम् । चि॒त् । कृ॒णु॒थ॒ । सु॒ऽप्रती॑कम् । भ॒द्रम् । गृ॒हम् । कृ॒णु॒थ॒ । भ॒द्र॒ऽवा॒चः॒ । बृ॒हत् । वः॒ । वयः॑ । उ॒च्य॒ते॒ । स॒भासु॑ ॥
Mantra 7
प्र॒जाव॑तीः सू॒यव॑सं रि॒शन्तीः॑ शु॒द्धा अ॒पः सु॑प्रपा॒णे पिब॑न्तीः। मा वः॑ स्ते॒न ई॑शत॒ माघशं॑सः॒ परि॑ वो हे॒ती रु॒द्रस्य॑ वृज्याः ॥७॥
प्र॒जाऽव॑तीः । सु॒ऽयव॑सम् । रि॒शन्तीः॑ । शु॒द्धाः । अ॒पः । सु॒ऽप्र॒पा॒ने । पिब॑न्तीः । मा । वः॒ । स्ते॒नः । ई॒श॒त॒ । मा । अ॒घऽशं॑सः । परि॑ । वः॒ । हे॒तिः । रु॒द्रस्य॑ । वृ॒ज्याः॒ ॥
Mantra 8
उपे॒दमु॑प॒पर्च॑नमा॒सु गोषूप॑ पृच्यताम्। उप॑ ऋष॒भस्य॒ रेत॒स्युपे॑न्द्र॒ तव॑ वी॒र्ये॑ ॥८॥
उप॑ । इ॒दम् । उ॒प॒ऽपर्च॑नम् । आ॒सु । गोषु॑ । उप॑ । पृ॒च्य॒ता॒म् । उप॑ । ऋ॒ष॒भस्य॑ । रेत॑सि । उप॑ । इ॒न्द्र॒ । तव॑ । वी॒र्ये॑ ॥