Mantra 1
किम॑स्य॒ मदे॒ किम्व॑स्य पी॒ताविन्द्रः॒ किम॑स्य स॒ख्ये च॑कार। रणा॑ वा॒ ये नि॒षदि॒ किं ते अ॑स्य पु॒रा वि॑विद्रे॒ किमु॒ नूत॑नासः ॥१॥
किम् । अ॒स्य॒ । मदे॑ । किम् । ऊँ॒ इति॑ । अ॒स्य॒ । पी॒तौ । इन्द्रः॑ । किम् । अ॒स्य॒ । स॒ख्ये । च॒का॒र॒ । रणाः॑ । वा॒ । ये । नि॒ऽसदि॑ । किम् । ते । अ॒स्य॒ । पु॒रा । वि॒वि॒द्रे॒ । किम् । ऊँ॒ इति॑ । नूत॑नासः ॥
Mantra 2
सद॑स्य॒ मदे॒ सद्व॑स्य पी॒ताविन्द्रः॒ सद॑स्य स॒ख्ये च॑कार। रणा॑ वा॒ ये नि॒षदि॒ सत्ते अ॑स्य पु॒रा वि॑विद्रे॒ सदु॒ नूत॑नासः ॥२॥
सत् । अ॒स्य॒ । मदे॑ । सत् । ऊँ॒ इति॑ । अ॒स्य॒ । पी॒तौ । इन्द्रः॑ । सत् । अ॒स्य॒ । स॒ख्ये । च॒का॒र॒ । रणाः॑ । वा॒ । ये । नि॒ऽसदि॑ । सत् । ते । अ॒स्य॒ । पु॒रा । वि॒वि॒द्रे॒ । सत् । ऊँ॒ इति॑ । नूत॑नासः ॥
Mantra 3
न॒हि नु ते॑ महि॒मनः॑ समस्य॒ न म॑घवन्मघव॒त्त्वस्य॑ वि॒द्म। न राध॑सोराधसो॒ नूत॑न॒स्येन्द्र॒ नकि॑र्ददृश इन्द्रि॒यं ते॑ ॥३॥
न॒हि । नु । ते॒ । म॒हि॒मनः॑ । स॒म॒स्य॒ । न । म॒घ॒ऽव॒न् । म॒घ॒व॒त्ऽत्वस्य॑ । वि॒द्म । न । राध॑सःऽराधसः । नूत॑नस्य । इन्द्र॑ । नकिः॑ । द॒दृ॒शे॒ । इ॒न्द्रि॒यम् । ते॒ ॥
Mantra 4
ए॒तत्यत्त॑ इन्द्रि॒यम॑चेति॒ येनाव॑धीर्व॒रशि॑खस्य॒ शेषः॑। वज्र॑स्य॒ यत्ते॒ निह॑तस्य॒ शुष्मा॑त्स्व॒नाच्चि॑दिन्द्र पर॒मो द॒दार॑ ॥४॥
ए॒तत् । त्यत् । ते॒ । इ॒न्द्रि॒यम् । अ॒चे॒ति॒ । येन॑ । अव॑धीः । व॒रऽशि॑खस्य । शेषः॑ । वज्र॑स्य । यत् । ते॒ । निऽह॑तस्य । शुष्मा॑त् । स्व॒नात् । चि॒त् । इ॒न्द्र॒ । प॒र॒मः । द॒दार॑ ॥
Mantra 5
वधी॒दिन्द्रो॑ व॒रशि॑खस्य॒ शेषो॑ऽभ्याव॒र्तिने॑ चायमा॒नाय॒ शिक्ष॑न्। वृ॒चीव॑तो॒ यद्ध॑रियू॒पीया॑यां॒ हन्पूर्वे॒ अर्धे॑ भि॒यसाप॑रो॒ दर्त् ॥५॥
वधी॑त् । इन्द्रः॑ । व॒रऽशि॑खस्य । शेषः॑ । अ॒भि॒ऽआ॒व॒र्तिने॑ । चा॒य॒मा॒नाय॑ । शिक्ष॑न् । वृ॒चीव॑तः । यत् । ह॒रि॒यू॒पीया॑याम् । हन् । पूर्वे॑ । अर्धे॑ । भि॒यसा॑ । अप॑रः । दर्त् ॥
Mantra 6
त्रिं॒शच्छ॑तं व॒र्मिण॑ इन्द्र सा॒कं य॒व्याव॑त्यां पुरुहूत श्रव॒स्या। वृ॒चीव॑न्तः॒ शर॑वे॒ पत्य॑मानाः॒ पात्रा॑ भिन्दा॒ना न्य॒र्थान्या॑यन् ॥६॥
त्रिं॒शत्ऽश॑तम् । व॒र्मिणः॑ । इ॒न्द्र॒ । सा॒कम् । य॒व्याऽव॑त्याम् । पु॒रु॒ऽहू॒त॒ । श्र॒व॒स्या । वृ॒चीव॑न्तः । शर॑वे । पत्य॑मानाः । पात्रा॑ । भि॒न्दा॒नाः । नि॒ऽअ॒र्थानि॑ । आ॒य॒न् ॥
Mantra 7
यस्य॒ गावा॑वरु॒षा सू॑यव॒स्यू अ॒न्तरू॒ षु चर॑तो॒ रेरि॑हाणा। स सृञ्ज॑याय तु॒र्वशं॒ परा॑दाद्वृ॒चीव॑तो दैववा॒ताय॒ शिक्ष॑न् ॥७॥
यस्य॑ । गावौ॑ । अ॒रु॒षा । सु॒य॒व॒स्यू इति॑ सु॒ऽय॒व॒स्यू । अ॒न्तः । ऊँ॒ इति॑ । सु । चर॑तः । रेरि॑हाणा । सः । सृञ्ज॑याय । तु॒र्वश॑म् । परा॑ । अ॒दा॒त् । वृ॒चीव॑तः । दै॒व॒ऽवा॒ताय॑ । शिक्ष॑न् ॥
Mantra 8
द्व॒याँ अ॑ग्ने र॒थिनो॑ विंश॒तिं गा व॒धूम॑न्तो म॒घवा॒ मह्यं॑ स॒म्राट्। अ॒भ्या॒व॒र्ती चा॑यमा॒नो द॑दाति दू॒णाशे॒यं दक्षि॑णा पार्थ॒वाना॑म् ॥८॥
द्व॒यान् । अ॒ग्ने॒ । र॒थिनः॑ । विं॒श॒तिम् । गाः । व॒धूऽम॑तः । म॒घऽवा॑ । मह्य॑म् । स॒म्ऽराट् । अ॒भि॒ऽआ॒व॒र्ती । चा॒य॒मा॒नः । द॒दा॒ति॒ । दुः॒ऽनाशा॑ । इ॒यम् । दक्षि॑णा । पा॒र्थ॒वाना॑म् ॥