Mantra 1
श्रु॒धी न॑ इन्द्र॒ ह्वया॑मसि त्वा म॒हो वाज॑स्य सा॒तौ वा॑वृषा॒णाः। सं यद्विशोऽय॑न्त॒ शूर॑साता उ॒ग्रं नोऽवः॒ पार्ये॒ अह॑न्दाः ॥१॥
श्रु॒धि । नः॒ । इ॒न्द्र॒ । ह्वया॑मसि । त्वा॒ । म॒हः । वाज॑स्य । सा॒तौ । व॒वृ॒षा॒णाः । सम् । यत् । विशः॑ । अय॑न्त । शूर॑ऽसातौ । उ॒ग्रम् । नः॒ । अवः॑ । पार्ये॑ । अह॑न् । दाः॒ ॥
Mantra 2
त्वां वा॒जी ह॑वते वाजिने॒यो म॒हो वाज॑स्य॒ गध्य॑स्य सा॒तौ। त्वां वृ॒त्रेष्वि॑न्द्र॒ सत्प॑तिं॒ तरु॑त्रं॒ त्वां च॑ष्टे मुष्टि॒हा गोषु॒ युध्य॑न् ॥२॥
त्वाम् । वा॒जी । ह॒व॒ते॒ । वा॒जि॒ने॒यः । म॒हः । वाज॑स्य । गध्य॑स्य । सा॒तौ । त्वाम् । वृ॒त्रेषु॑ । इ॒न्द्र॒ । सत्ऽप॑तिम् । तरु॑त्रम् । त्वाम् । च॒ष्टे॒ । मु॒ष्टि॒ऽहा । गोषु॑ । युध्य॑न् ॥
Mantra 3
त्वं क॒विं चो॑दयो॒ऽर्कसा॑तौ॒ त्वं कुत्सा॑य॒ शुष्णं॑ दा॒शुषे॑ वर्क्। त्वं शिरो॑ अम॒र्मणः॒ परा॑हन्नतिथि॒ग्वाय॒ शंस्यं॑ करि॒ष्यन् ॥३॥
त्वम् । क॒विम् । चो॒द॒यः॒ । अ॒र्कऽसा॑तौ । त्वम् । कुत्सा॑य । शुष्ण॑म् । दा॒शुषे॑ । व॒र्क् । त्वम् । शिरः॑ । अ॒म॒र्मणः॑ । परा॑ । अ॒ह॒न् । अ॒ति॒थि॒ऽग्वाय॑ । शंस्य॑म् । क॒रि॒ष्यन् ॥
Mantra 4
त्वं रथं॒ प्र भ॑रो यो॒धमृ॒ष्वमावो॒ युध्य॑न्तं वृष॒भं दश॑द्युम्। त्वं तुग्रं॑ वेत॒सवे॒ सचा॑ह॒न्त्वं तुजिं॑ गृ॒णन्त॑मिन्द्र तूतोः ॥४॥
त्वम् । रथ॑म् । प्र । भ॒रः॒ । यो॒धम् । ऋ॒ष्वम् । आवः॑ । युध्य॑न्तम् । वृ॒ष॒भम् । दश॑ऽद्युम् । त्वम् । तुग्र॑म् । वे॒त॒सवे॑ । सचा॑ । अ॒ह॒न् । त्वम् । तुजि॑म् । गृ॒णन्त॑म् । इ॒न्द्र॒ । तू॒तो॒रिति॑ तूतोः ॥
Mantra 5
त्वं तदु॒क्थमि॑न्द्र ब॒र्हणा॑ कः॒ प्र यच्छ॒ता स॒हस्रा॑ शूर॒ दर्षि॑। अव॑ गि॒रेर्दासं॒ शम्ब॑रं ह॒न्प्रावो॒ दिवो॑दासं चि॒त्राभि॑रू॒ती ॥५॥
त्वम् । तत् । उ॒क्थम् । इ॒न्द्र॒ । ब॒र्हणा॑ । क॒रिति॑ कः । प्र । य॒त् । श॒ता । स॒हस्रा॑ । शू॒र॒ । दर्षि॑ । अव॑ । गि॒रेः । दास॑म् । शम्ब॑रम् । ह॒न् । प्र । आ॒वः॒ । दिवः॑ऽदासम् । चि॒त्राभिः॑ । ऊ॒ती ॥
Mantra 6
त्वं श्र॒द्धाभि॑र्मन्दसा॒नः सोमै॑र्द॒भीत॑ये॒ चुमु॑रिमिन्द्र सिष्वप्। त्वं र॒जिं पिठी॑नसे दश॒स्यन्ष॒ष्टिं स॒हस्रा॒ शच्या॒ सचा॑हन् ॥६॥
त्वम् । श्र॒द्धाभिः॑ । म॒न्द॒सा॒नः । सोमैः॑ । द॒भीत॑ये । चुमु॑रिम् । इ॒न्द्र॒ । सि॒स्व॒प् । त्वम् । र॒जिम् । पिथी॑नसे । द॒श॒स्यन् । ष॒ष्टिम् । स॒हस्रा॑ । शच्या॑ । सचा॑ । अ॒ह॒न् ॥
Mantra 7
अ॒हं च॒न तत्सू॒रिभि॑रानश्यां॒ तव॒ ज्याय॑ इन्द्र सु॒म्नमोजः॑। त्वया॒ यत्स्तव॑न्ते सधवीर वी॒रास्त्रि॒वरू॑थेन॒ नहु॑षा शविष्ठ ॥७॥
अ॒हम् । च॒न । तत् । सू॒रिऽभिः॑ । आ॒न॒श्या॒न् । तव॑ । ज्यायः॑ । इ॒न्द्र॒ । सु॒म्नम् । ओजः॑ । त्वया॑ । यत् । स्तव॑न्ते । स॒ध॒ऽवी॒र॒ । वी॒राः । त्रि॒ऽवरू॑थेन । नहु॑षा । श॒वि॒ष्ठ॒ ॥
Mantra 8
व॒यं ते॑ अ॒स्यामि॑न्द्र द्यु॒म्नहू॑तौ॒ सखा॑यः स्याम महिन॒ प्रेष्ठाः॑। प्रात॑र्दनिः क्षत्र॒श्रीर॑स्तु॒ श्रेष्ठो॑ घ॒ने वृ॒त्राणां॑ स॒नये॒ धना॑नाम् ॥८॥
व॒यम् । ते॒ । अ॒स्याम् । इ॒न्द्र॒ । द्यु॒म्नऽहू॑तौ । सखा॑यः । स्या॒म॒ । म॒हि॒न॒ । प्रेष्ठाः॑ । प्रात॑र्दनिः । क्ष॒त्र॒ऽश्रीः । अ॒स्तु॒ । श्रेष्ठः॑ । घ॒ने । वृ॒त्राणा॑म् । स॒नये॑ । धना॑नाम् ॥