Mantra 1
वृषा॒ मद॒ इन्द्रे॒ श्लोक॑ उ॒क्था सचा॒ सोमे॑षु सुत॒पा ऋ॑जी॒षी। अ॒र्च॒त्र्यो॑ म॒घवा॒ नृभ्य॑ उ॒क्थैर्द्यु॒क्षो राजा॑ गि॒रामक्षि॑तोतिः ॥१॥
वृषा॑ । मदः॑ । इन्द्रे॑ । श्लोकः॑ । उ॒क्था । सचा॑ । सोमे॑षु । सु॒त॒ऽपाः । ऋ॒जी॒षी । अ॒र्च॒त्र्यः॑ । म॒घऽवा॑ । नृऽभ्यः॑ । उ॒क्थैः । द्यु॒क्षः । राजा॑ । गि॒राम् । अक्षि॑तऽऊतिः ॥
Mantra 2
ततु॑रिर्वी॒रो नर्यो॒ विचे॑ताः॒ श्रोता॒ हवं॑ गृण॒त उ॒र्व्यू॑तिः। वसुः॒ शंसो॑ न॒रां का॒रुधा॑या वा॒जी स्तु॒तो वि॒दथे॑ दाति॒ वाज॑म् ॥२॥
ततु॑रिः । वी॒रः । नर्यः॑ । विऽचे॑ताः । श्रोता॑ । हव॑म् । गृ॒ण॒तः । उ॒र्विऽऊ॑तिः । वसुः॑ । शंसः॑ । न॒राम् । का॒रुऽधा॑याः । वा॒जी । स्तु॒तः । वि॒दथे॑ । दा॒ति॒ । वाज॑म् ॥
Mantra 3
अक्षो॒ न च॒क्र्योः॑ शूर बृ॒हन्प्र ते॑ म॒ह्ना रि॑रिचे॒ रोद॑स्योः। वृ॒क्षस्य॒ नु ते॑ पुरुहूत व॒या व्यू॒३॒॑तयो॑ रुरुहुरिन्द्र पू॒र्वीः ॥३॥
अक्षः॑ । न । च॒क्र्योः॑ । शू॒र॒ । बृ॒हन् । प्र । ते॒ । म॒ह्ना । रि॒रि॒चे॒ । रोद॑स्योः । वृ॒क्षस्य॑ । नु । ते॒ । पु॒रु॒ऽहू॒त॒ । व॒याः । वि । ऊ॒तयः॑ । रु॒रु॒हुः॒ । इ॒न्द्र॒ पू॒र्वीः ॥
Mantra 4
शची॑वतस्ते पुरुशाक॒ शाका॒ गवा॑मिव स्रु॒तयः॑ सं॒चर॑णीः। व॒त्सानां॒ न त॒न्तय॑स्त इन्द्र॒ दाम॑न्वन्तो अदा॒मानः॑ सुदामन् ॥४॥
शची॑ऽवतः । ते॒ । पु॒रु॒ऽशा॒क॒ । शाकाः॑ । गवा॑म्ऽइव । स्रु॒तयः॑ । स॒म्ऽचर॑णीः । व॒त्साना॑म् । न । त॒न्तयः॑ । ते॒ । इ॒न्द्र॒ । दाम॑न्ऽवन्तः । अ॒दा॒मानः॑ । सु॒ऽदा॒म॒न् ॥
Mantra 5
अ॒न्यद॒द्य कर्व॑रम॒न्यदु॒ श्वोऽस॑च्च॒ सन्मुहु॑राच॒क्रिरिन्द्रः॑। मि॒त्रो नो॒ अत्र॒ वरु॑णश्च पू॒षार्यो वश॑स्य पर्ये॒तास्ति॑ ॥५॥
अ॒न्यत् । अ॒द्य । कर्व॑रम् । अ॒न्यत् । ऊँ॒ इति॑ । श्वः । अस॑त् । च॒ । सत् । मुहुः॑ । आ । च॒क्रिः । इन्द्रः॑ । मि॒त्रः । नः॒ । अत्र॑ । वरु॑णः । च॒ । पू॒षा । अ॒र्यः । वश॑स्य । प॒रि॒ऽए॒ता । अ॒स्ति॒ ॥
Mantra 6
वि त्वदापो॒ न पर्व॑तस्य पृ॒ष्ठादु॒क्थेभि॑रिन्द्रानयन्त य॒ज्ञैः। तं त्वा॒भिः सु॑ष्टु॒तिभि॑र्वा॒जय॑न्त आ॒जिं न ज॑ग्मुर्गिर्वाहो॒ अश्वाः॑ ॥६॥
वि । त्वत् । आपः॑ । न । पर्व॑तस्य । पृ॒ष्ठात् । उ॒क्थेभिः॑ । इ॒न्द्र॒ । अ॒न॒य॒न्त॒ । य॒ज्ञैः । तम् । त्वा॒ । आ॒भिः । सु॒स्तु॒तिऽभिः॑ । वा॒जय॑न्तः । आ॒जिम् । न । ज॒ग्मुः॒ । गि॒र्वा॒हः॒ । अश्वाः॑ ॥
Mantra 7
न यं जर॑न्ति श॒रदो॒ न मासा॒ न द्याव॒ इन्द्र॑मवक॒र्शय॑न्ति। वृ॒द्धस्य॑ चिद्वर्धतामस्य त॒नूः स्तोमेभि॑रु॒क्थैश्च॑ श॒स्यमा॑ना ॥७॥
न । यम् । जर॑न्ति । श॒रदः॑ । न । मासाः॑ । न । द्यावः॑ । इन्द्र॑म् । अ॒व॒ऽक॒र्शय॑न्ति । वृ॒द्धस्य॑ । चि॒त् । व॒र्ध॒ता॒म् । अ॒स्य॒ । त॒नूः । स्तोमे॑भिः । उ॒क्थैः । च॒ । श॒स्यमा॑ना ॥
Mantra 8
न वी॒ळवे॒ नम॑ते॒ न स्थि॒राय॒ न शर्ध॑ते॒ दस्यु॑जूताय स्त॒वान्। अज्रा॒ इन्द्र॑स्य गि॒रय॑श्चिदृ॒ष्वा ग॑म्भी॒रे चि॑द्भवति गा॒धम॑स्मै ॥८॥
न । वी॒ळवे॑ । नम॑ते । न । स्थि॒राय॑ । न । शर्ध॑ते । दस्यु॑ऽजूताय । स्त॒वान् । अज्राः॑ । इन्द्र॑स्य । गि॒रयः॑ । चित् । ऋ॒ष्वाः । ग॒म्भी॒रे । चि॒त् । भ॒व॒ति॒ । गा॒धम् । अ॒स्मै॒ ॥
Mantra 9
ग॒म्भी॒रेण॑ न उ॒रुणा॑मत्रि॒न्प्रेषो य॑न्धि सुतपाव॒न्वाजा॑न्। स्था ऊ॒ षु ऊ॒र्ध्व ऊ॒ती अरि॑षण्यन्न॒क्तोर्व्यु॑ष्टौ॒ परि॑तक्म्यायाम् ॥९॥
ग॒म्भी॒रेण॑ । नः॒ । उ॒रुणा॑ । अ॒म॒त्रि॒न् । प्र । इ॒षः । य॒न्धि॒ । सु॒त॒ऽपा॒व॒न् । वाजा॑न् । स्थाः । ऊँ॒ इति॑ । सु । ऊ॒र्ध्वः । ऊ॒ती । अरि॑षण्यन् । अ॒क्तोः । विऽउ॑ष्टौ । परि॑ऽतक्म्यायाम् ॥
Mantra 10
सच॑स्व ना॒यमव॑से अ॒भीक॑ इ॒तो वा॒ तमि॑न्द्र पाहि रि॒षः। अ॒मा चै॑न॒मर॑ण्ये पाहि रि॒षो मदे॑म श॒तहि॑माः सु॒वीराः॑ ॥१०॥
सच॑स्व । ना॒यम् । अव॑से । अ॒भीके॑ । इ॒तः । वा॒ । तम् । इ॒न्द्र॒ । पा॒हि॒ । रि॒षः । अ॒मा । च॒ । ए॒न॒म् । अर॑ण्ये । पा॒हि॒ । रि॒षः । मदे॑म । श॒तऽहि॑माः । सु॒ऽवीराः॑ ॥