Mantra 1
इ॒मा उ॑ त्वा पुरु॒तम॑स्य का॒रोर्हव्यं॑ वीर॒ हव्या॑ हवन्ते। धियो॑ रथे॒ष्ठाम॒जरं॒ नवी॑यो र॒यिर्विभू॑तिरीयते वच॒स्या ॥१॥
इ॒माः । ऊँ॒ इति॑ । त्वा॒ । पु॒रु॒ऽतम॑स्य । का॒रोः । हव्य॑म् । वी॒र॒ । हव्याः॑ । ह॒व॒न्ते॒ । धियः॑ । र॒थे॒ऽस्थाम् । अ॒जर॑म् । नवी॑यः । र॒यिः । विऽभू॑तिः । ई॒य॒ते॒ । व॒च॒स्या ॥
Mantra 2
तमु॑ स्तुष॒ इन्द्रं॒ यो विदा॑नो॒ गिर्वा॑हसं गी॒र्भिर्य॒ज्ञवृ॑द्धम्। यस्य॒ दिव॒मति॑ म॒ह्ना पृ॑थि॒व्याः पु॑रुमा॒यस्य॑ रिरि॒चे म॑हि॒त्वम् ॥२॥
तम् । ऊँ॒ इति॑ । स्तु॒षे॒ । इन्द्र॑म् । यः । विदा॑नः । गिर्वा॑हसम् । गीः॒ऽभिः । य॒ज्ञऽवृ॑द्धम् । यस्य॑ । दिव॑म् । अति॑ । म॒ह्ना । पृ॒थि॒व्याः । पु॒रु॒ऽमा॒यस्य॑ । रि॒रि॒चे । म॒हि॒ऽत्वम् ॥
Mantra 3
स इत्तमो॑ऽवयु॒नं त॑त॒न्वत्सूर्ये॑ण व॒युन॑वच्चकार। क॒दा ते॒ मर्ता॑ अ॒मृत॑स्य॒ धामेय॑क्षन्तो॒ न मि॑नन्ति स्वधावः ॥३॥
सः । इत् । तमः॑ । अ॒व॒यु॒नम् । त॒त॒न्वत् । सूर्ये॑ण । व॒युन॑ऽवत् । च॒का॒र॒ । क॒दा । ते॒ । मर्ताः॑ । अ॒मृत॑स्य । धाम॑ । इय॑क्षन्तः । न । मि॒न॒न्ति॒ । स्व॒धा॒ऽवः॒ ॥
Mantra 4
यस्ता च॒कार॒ स कुह॑ स्वि॒दिन्द्रः॒ कमा जनं॑ चरति॒ कासु॑ वि॒क्षु। कस्ते॑ य॒ज्ञो मन॑से॒ शं वरा॑य॒ को अ॒र्क इ॑न्द्र कत॒मः स होता॑ ॥४॥
यः । ता । च॒कार॑ । सः । कुह॑ । स्वि॒त् । इन्द्रः॑ । कम् । आ । जन॑म् । च॒र॒ति॒ । कासु॑ । वि॒क्षु । कः । ते॒ । य॒ज्ञः । मन॑से । शम् । वरा॑य । कः । अ॒र्कः । इ॒न्द्र॒ । क॒त॒मः । सः । होता॑ ॥
Mantra 5
इ॒दा हि ते॒ वेवि॑षतः पुरा॒जाः प्र॒त्नास॑ आ॒सुः पु॑रुकृ॒त्सखा॑यः। ये म॑ध्य॒मास॑ उ॒त नूत॑नास उ॒ताव॒मस्य॑ पुरुहूत बोधि ॥५॥
इ॒दा । हि । ते॒ । वेवि॑षतः । पु॒रा॒ऽजाः । प्र॒त्नासः॑ । आ॒सुः । पु॒रु॒ऽकृ॒त् । सखा॑यः । ये । म॒द्य॒मासः॑ । उ॒त । नूत॑नासः । उ॒त । अ॒व॒मस्य॑ । पु॒रु॒ऽहू॒त॒ । बो॒धि॒ ॥
Mantra 6
तं पृ॒च्छन्तोऽव॑रासः॒ परा॑णि प्र॒त्ना त॑ इन्द्र॒ श्रुत्यानु॑ येमुः। अर्चा॑मसि वीर ब्रह्मवाहो॒ यादे॒व वि॒द्म तात्त्वा॑ म॒हान्त॑म् ॥६॥
तम् । पृ॒च्छन्तः॑ । अव॑रासः । परा॑णि । प्र॒त्ना । ते॒ । इ॒न्द्र॒ । श्रुत्या॑ । अनु॑ । ये॒मुः॒ । अर्चा॑मसि । वी॒र॒ । ब्र॒ह्म॒ऽवाहः॑ । यात् । ए॒व । वि॒द्म । तात् । त्वा॒ । म॒हान्त॑म् ॥
Mantra 7
अ॒भि त्वा॒ पाजो॑ र॒क्षसो॒ वि त॑स्थे॒ महि॑ जज्ञा॒नम॒भि तत्सु ति॑ष्ठ। तव॑ प्र॒त्नेन॒ युज्ये॑न॒ सख्या॒ वज्रे॑ण धृष्णो॒ अप॒ ता नु॑दस्व ॥७॥
अ॒भि । त्वा॒ । पाजः॑ । र॒क्षसः॑ । वि । त॒स्थे॒ । महि॑ । ज॒ज्ञा॒नम् । अ॒भि । तत् । सु । ति॒ष्ठ॒ । तव॑ । प्र॒त्नेन॑ । युज्ये॑न । सख्या॑ । वज्रे॑ण । धृ॒ष्णो॒ इति॑ । अप॑ । ता । नु॒द॒स्व॒ ॥
Mantra 8
स तु श्रु॑धीन्द्र॒ नूत॑नस्य ब्रह्मण्य॒तो वी॑र कारुधायः। त्वं ह्या॒३॒॑पिः प्र॒दिवि॑ पितॄ॒णां शश्व॑द्ब॒भूथ॑ सु॒हव॒ एष्टौ॑ ॥८॥
सः । तु । श्रु॒धि॒ । इ॒न्द्र॒ । नूत॑नस्य । ब्र॒ह्म॒ण्य॒तः । वी॒र॒ । का॒रु॒ऽधा॒यः॒ । त्वम् । हि । आ॒पिः । प्र॒ऽदिवि॑ । पि॒तॄ॒णाम् । शश्व॑त् । ब॒भूथ॑ । सु॒ऽहवः॑ । आऽइ॑ष्टौ ॥
Mantra 9
प्रोतये॒ वरु॑णं मि॒त्रमिन्द्रं॑ म॒रुतः॑ कृ॒ष्वाव॑से नो अ॒द्य। प्र पू॒षणं॒ विष्णु॑म॒ग्निं पुरं॑धिं सवि॒तार॒मोष॑धीः॒ पर्व॑तांश्च ॥९॥
प्र । ऊ॒तये॑ । वरु॑णम् । मि॒त्रम् । इन्द्र॑म् । म॒रुतः॑ । कृ॒ष्व॒ । अव॑से । नः॒ । अ॒द्य । प्र । पू॒षण॑म् । विष्णु॑म् । अ॒ग्निम् । पुर॑म्ऽधि॑म् । स॒वि॒तार॑म् । ओष॑धीः । पर्व॑तान् । च॒ ॥
Mantra 10
इ॒म उ॑ त्वा पुरुशाक प्रयज्यो जरि॒तारो॑ अ॒भ्य॑र्चन्त्य॒र्कैः। श्रु॒धी हव॒मा हु॑व॒तो हु॑वा॒नो न त्वावाँ॑ अ॒न्यो अ॑मृत॒ त्वद॑स्ति ॥१०॥
इ॒मे । ऊँ॒ इति॑ । त्वा॒ । पु॒रु॒ऽशा॒क॒ । प्र॒य॒ज्यो॒ इति॑ प्रऽयज्यो । ज॒रि॒तारः॑ । अ॒भि । अ॒र्च॒न्ति॒ । अ॒र्कैः । श्रु॒धि । हव॑म् । आ । हु॒व॒तः । हु॒वा॒नः । न । त्वाऽवा॑न् । अ॒न्यः । अ॒मृ॒त॒ । त्वत् । अ॒स्ति॒ ॥
Mantra 11
नू म॒ आ वाच॒मुप॑ याहि वि॒द्वान्विश्वे॑भिः सूनो सहसो॒ यज॑त्रैः। ये अ॑ग्निजि॒ह्वा ऋ॑त॒साप॑ आ॒सुर्ये मनुं॑ च॒क्रुरुप॑रं॒ दसा॑य ॥११॥
नु । मे॒ । आ । वाच॑म् । उप॑ । या॒हि॒ । वि॒द्वान् । विश्वे॑भिः । सू॒नो॒ इति॑ । स॒ह॒सः॒ । यज॑त्रैः । ये । अ॒ग्नि॒ऽजि॒ह्वाः । ऋ॒त॒ऽसापः॑ । आ॒सुः । ये । मनु॑म् । च॒क्रुः । उप॑रम् । दसा॑य ॥
Mantra 12
स नो॑ बोधि पुरए॒ता सु॒गेषू॒त दु॒र्गेषु॑ पथि॒कृद्विदा॑नः। ये अश्र॑मास उ॒रवो॒ वहि॑ष्ठा॒स्तेभि॑र्न इन्द्रा॒भि व॑क्षि॒ वाज॑म् ॥१२॥
सः । नः॒ । बो॒धि॒ । पु॒रः॒ऽए॒ता । सु॒ऽगेषु॑ । उ॒त । दुः॒ऽगेषु॑ । प॒थि॒ऽकृत् । विदा॑नः । ये । अश्र॑मासः । उ॒रवः॑ । वहि॑ष्ठाः । तेभिः॑ । नः॒ । इ॒न्द्र॑ । अ॒भि । व॒क्षि॒ । वाज॑म् ॥