Mantra 1
द्यौर्न य इ॑न्द्रा॒भि भूमा॒र्यस्त॒स्थौ र॒यिः शव॑सा पृ॒त्सु जना॑न्। तं नः॑ स॒हस्र॑भरमुर्वरा॒सां द॒द्धि सू॑नो सहसो वृत्र॒तुर॑म् ॥१॥
द्यौः । न । यः । इ॒न्द्र॒ । अ॒भि । भूम॑ । अ॒र्यः । त॒स्थौ । र॒यिः । शव॑सा । पृ॒त्ऽसु । जना॑न् । तम् । नः॒ । स॒हस्र॑ऽभरम् । उ॒र्व॒रा॒ऽसाम् । द॒द्धि । सू॒नो॒ इति॑ । स॒ह॒सः॒ । वृ॒त्र॒ऽतुर॑म् ॥
Mantra 2
दि॒वो न तुभ्य॒मन्वि॑न्द्र स॒त्रासु॒र्यं॑ दे॒वेभि॑र्धायि॒ विश्व॑म्। अहिं॒ यद्वृ॒त्रम॒पो व॑व्रि॒वांसं॒ हन्नृ॑जीषि॒न्विष्णु॑ना सचा॒नः ॥२॥
दि॒वः । न । तुभ्य॑म् । अनु॑ । इ॒न्द्र॒ । स॒त्रा । अ॒सु॒र्य॑म् । दे॒वेभिः॑ । धा॒यि॒ । विश्व॑म् । अहि॑म् । यत् । वृ॒त्रम् । अ॒पः । व॒व्रि॒ऽवांस॑म् । हन् । ऋ॒जी॒षि॒न् । विष्णु॑ना । स॒चा॒नः ॥
Mantra 3
तूर्व॒न्नोजी॑यान्त॒वस॒स्तवी॑यान्कृ॒तब्र॒ह्मेन्द्रो॑ वृ॒द्धम॑हाः। राजा॑भव॒न्मधु॑नः सो॒म्यस्य॒ विश्वा॑सां॒ यत्पु॒रां द॒र्त्नुमाव॑त् ॥३॥
तूर्व॑न् । ओजी॑यान् । त॒वसः॑ । तवी॑यान् । कृ॒तऽब्र॑ह्मा । इन्द्रः॑ । वृ॒द्धऽम॑हाः । राजा॑ । अ॒भ॒व॒त् । मधु॑नः । सो॒म्यस्य॑ । विश्वा॑साम् । यत् । पु॒राम् । द॒र्त्नुम् । आव॑त् ॥
Mantra 4
श॒तैर॑पद्रन्प॒णय॑ इ॒न्द्रात्र॒ दशो॑णये क॒वये॒ऽर्कसा॑तौ। व॒धैः शुष्ण॑स्या॒शुष॑स्य मा॒याः पि॒त्वो नारि॑रेची॒त्किं च॒न प्र ॥४॥
श॒तैः । अ॒प॒द्र॒न् । प॒णयः॑ । इ॒न्द्र॒ । अत्र॑ । दश॑ऽओणये । क॒वये॑ । अ॒र्कऽसा॑तौ । व॒धैः । शुष्ण॑स्य । अ॒शुष॑स्य । मा॒याः । पि॒त्वः । न । अ॒रि॒रे॒ची॒त् । किम् । च॒न । प्र ॥
Mantra 5
म॒हो द्रु॒हो अप॑ वि॒श्वायु॑ धायि॒ वज्र॑स्य॒ यत्पत॑ने॒ पादि॒ शुष्णः॑। उ॒रु ष स॒रथं॒ सार॑थये क॒रिन्द्रः॒ कुत्सा॑य॒ सूर्य॑स्य सा॒तौ ॥५॥
म॒हः । द्रु॒हः । अप॑ । वि॒श्वऽआ॑यु । धा॒यि॒ । वज्र॑स्य । यत् । पत॑ने । पादि॑ । शुष्णः॑ । उ॒रु । सः । स॒ऽरथ॑म् । सार॑थये । कः॒ । इन्द्रः॑ । कुत्सा॑य । सूर्य॑स्य । सा॒तौ ॥
Mantra 6
प्र श्ये॒नो न म॑दि॒रमं॒शुम॑स्मै॒ शिरो॑ दा॒सस्य॒ नमु॑चेर्मथा॒यन्। प्राव॒न्नमीं॑ सा॒प्यं स॒सन्तं॑ पृ॒णग्रा॒या समि॒षा सं स्व॒स्ति ॥६॥
प्र । श्ये॒नः । न । म॒दि॒रम् । अं॒शुम् । अ॒स्मै॒ । शिरः॑ । दा॒सस्य॑ । नमु॑चेः । म॒था॒यन् । प्र । आ॒व॒त् । नमी॑म् । सा॒प्यम् । स॒सन्त॑म् । पृ॒णक् । रा॒या । सम् । इ॒षा । सम् । स्व॒स्ति ॥
Mantra 7
वि पिप्रो॒रहि॑मायस्य दृ॒ळ्हाः पुरो॑ वज्रि॒ञ्छव॑सा॒ न द॑र्दः। सुदा॑म॒न्तद्रेक्णो॑ अप्रमृ॒ष्यमृ॒जिश्व॑ने दा॒त्रं दा॒शुषे॑ दाः ॥७॥
वि । पिप्रोः॑ । अहि॑ऽमायस्य । दृ॒ळ्हाः । पुरः॑ । व॒ज्रि॒न् । शव॑सा । न । द॒र्द॒रिति॑ दर्दः । सुऽदा॑मन् । तत् । रेक्णः॑ । अ॒प्र॒ऽमृ॒ष्यम् । ऋ॒जिश्व॑ने । दा॒त्रम् । दा॒शुषे॑ । दाः॒ ॥
Mantra 8
स वे॑त॒सुं दश॑मायं॒ दशो॑णिं॒ तूतु॑जि॒मिन्द्रः॑ स्वभि॒ष्टिसु॑म्नः। आ तुग्रं॒ शश्व॒दिभं॒ द्योत॑नाय मा॒तुर्न सी॒मुप॑ सृजा इ॒यध्यै॑ ॥८॥
सः । वे॒त॒सुम् । दश॑ऽमायम् । दश॑ऽओणिम् । तूतु॑जिम् । इन्द्रः॑ । स्व॒भि॒ष्टिऽसु॑म्नः । आ । तुग्र॑म् । शश्व॑त् । इभ॑म् । द्योत॑नाय । मा॒तुः । न । सी॒म् । उप॑ । सृ॒ज॒ । इ॒यध्यै॑ ॥
Mantra 9
स ईं॒ स्पृधो॑ वनते॒ अप्र॑तीतो॒ बिभ्र॒द्वज्रं॑ वृत्र॒हणं॒ गभ॑स्तौ। तिष्ठ॒द्धरी॒ अध्यस्ते॑व॒ गर्ते॑ वचो॒युजा॑ वहत॒ इन्द्र॑मृ॒ष्वम् ॥९॥
सः । ई॒म् । स्पृधः॑ । व॒न॒ते॒ । अप्र॑तिऽइतः । बिभ्र॑त् । वज्र॑म् । वृ॒त्र॒ऽहन॑म् । गभ॑स्तौ । तिष्ठ॑त् । हरी॒ इति॑ । अधि॑ । अस्ता॑ऽइव । गर्ते॑ । व॒चः॒ऽयुजा॑ । व॒ह॒तः॒ । इन्द्र॑म् । ऋ॒ष्वम् ॥
Mantra 10
स॒नेम॒ तेऽव॑सा॒ नव्य॑ इन्द्र॒ प्र पू॒रवः॑ स्तवन्त ए॒ना य॒ज्ञैः। स॒प्त यत्पुरः॒ शर्म॒ शार॑दी॒र्दर्द्धन्दासीः॑ पुरु॒कुत्सा॑य॒ शिक्ष॑न् ॥१०॥
स॒नेम॑ । ते । अव॑सा । नव्यः॑ । इ॒न्द्र॒ । प्र । पू॒रवः॑ । स्त॒व॒न्ते॒ । ए॒ना । य॒ज्ञैः । स॒प्त । यत् । पुरः॑ । शर्म॑ । शार॑दीः । दर्त् । हन् । दासीः॑ । पु॒रु॒ऽकुत्सा॑य । शिक्ष॑न् ॥
Mantra 11
त्वं वृ॒ध इ॑न्द्र पू॒र्व्यो भू॑र्वरिव॒स्यन्नु॒शने॑ का॒व्याय॑। परा॒ नव॑वास्त्वमनु॒देयं॑ म॒हे पि॒त्रे द॑दाथ॒ स्वं नपा॑तम् ॥११॥
त्वम् । वृ॒धः । इ॒न्द्र॒ । पू॒र्व्यः॑ । भूः॒ । व॒रि॒व॒स्यन् । उ॒शने॑ । का॒व्याय॑ । परा॑ । नव॑ऽवास्त्वम् । अ॒नु॒ऽदेय॑म् । म॒हे । पि॒त्रे । द॒दा॒थ॒ । स्वम् । नपा॑तम् ॥
Mantra 12
त्वं धुनि॑रिन्द्र॒ धुनि॑मतीर्ऋ॒णोर॒पः सी॒रा न स्रव॑न्तीः। प्र यत्स॑मु॒द्रमति॑ शूर॒ पर्षि॑ पा॒रया॑ तु॒र्वशं॒ यदुं॑ स्व॒स्ति ॥१२॥
त्वम् । धुनिः॑ । इ॒न्द्र॒ । धुनि॑ऽमतीः । ऋ॒णोः । अ॒पः । सी॒राः । न । स्रव॑न्तीः । प्र । यत् । स॒मु॒द्रम् । अति॑ । शू॒र॒ । पर्षि॑ । पा॒रय॑ । तु॒र्वश॑म् । यदु॑म् । स्व॒स्ति ॥
Mantra 13
तव॑ ह॒ त्यदि॑न्द्र॒ विश्व॑मा॒जौ स॒स्तो धुनी॒चुमु॑री॒ या ह॒ सिष्व॑प्। दी॒दय॒दित्तुभ्यं॒ सोमे॑भिः सु॒न्वन्द॒भीति॑रि॒ध्मभृ॑तिः प॒क्थ्य१॒॑र्कैः ॥१३॥
तव॑ । ह॒ । त्यत् । इ॒न्द्र॒ । विश्व॑म् । आ॒जौ । स॒स्तः । धुनी॒चुमु॑री॒ इति॑ । या । ह॒ । सिस्व॑प् । दी॒दय॑त् । इत् । तुभ्य॑म् । सोमे॑भिः । सु॒न्वन् । द॒भीतिः॑ । इ॒ध्मऽभृ॑तिः । प॒क्थी । अ॒र्कैः ॥