Mantra 1
इ॒ममू॒ षु वो॒ अति॑थिमुष॒र्बुधं॒ विश्वा॑सां वि॒शां पति॑मृञ्जसे गि॒रा। वेतीद्दि॒वो ज॒नुषा॒ कच्चि॒दा शुचि॒र्ज्योक्चि॑दत्ति॒ गर्भो॒ यदच्यु॑तम् ॥१॥
इ॒मम् । ऊँ॒ इति॑ । सु । वः॒ । अति॑थिम् । उ॒षः॒ऽबुध॑म् । विश्वा॑साम् । वि॒शाम् । पति॑म् । ऋ॒ञ्ज॒से॒ । गि॒रा । वेति॑ । इत् । दि॒वः । ज॒नुषा॑ । कत् । चि॒त् । आ । शुचिः॑ । ज्योक् । चि॒त् । अ॒त्ति॒ । गर्भः॑ । यत् । अच्यु॑तम् ॥
Mantra 2
मि॒त्रं न यं सुधि॑तं॒ भृग॑वो द॒धुर्वन॒स्पता॒वीड्य॑मू॒र्ध्वशो॑चिषम्। स त्वं सुप्री॑तो वी॒तह॑व्ये अद्भुत॒ प्रश॑स्तिभिर्महयसे दि॒वेदि॑वे ॥२॥
मि॒त्रम् । न । यम् । सु॒ऽधि॑तम् । भृग॑वः । द॒धुः । वन॒स्पतौ॑ । ईड्य॑म् । ऊ॒र्ध्वऽशो॑चिषम् । सः । त्वम् । सुऽप्री॑तः । वी॒तऽह॑व्ये । अ॒द्भु॒त॒ । प्रश॑स्तिऽभिः । म॒ह॒य॒से॒ । दि॒वेऽदि॑वे ॥
Mantra 3
स त्वं दक्ष॑स्यावृ॒को वृ॒धो भू॑र॒र्यः पर॒स्यान्त॑रस्य॒ तरु॑षः। रा॒यः सू॑नो सहसो॒ मर्त्ये॒ष्वा छ॒र्दिर्य॑च्छ वी॒तह॑व्याय स॒प्रथो॑ भ॒रद्वा॑जाय स॒प्रथः॑ ॥३॥
सः । त्वम् । दक॑स्य । अ॒वृ॒कः । वृ॒धः । भूः॒ । अ॒र्यः । पर॑स्य । अन्त॑रस्य । तरु॑षः । रा॒यः । सू॒नो॒ इति॑ । स॒ह॒सः॒ । मर्त्ये॑षु । आ । छ॒र्दिः । य॒च्छ॒ । वी॒तऽह॑व्याय । स॒ऽप्रथः॑ । भ॒रत्ऽवा॑जाय । स॒ऽप्रथः॑ ॥
Mantra 4
द्यु॒ता॒नं वो॒ अति॑थिं॒ स्व॑र्णरम॒ग्निं होता॑रं॒ मनु॑षः स्वध्व॒रम्। विप्रं॒ न द्यु॒क्षव॑चसं सुवृ॒क्तिभि॑र्हव्य॒वाह॑मर॒तिं दे॒वमृ॑ञ्जसे ॥
द्यु॒ता॒नम् । वः॒ । अति॑थिम् । स्वः॑ऽनरम् । अ॒ग्निम् । होता॑रम् । मनु॑षः । सु॒ऽअ॒ध्व॒रम् । विप्र॑म् । न । द्यु॒क्षऽव॑चसम् । सु॒वृ॒क्तिऽभिः॑ । ह॒व्य॒ऽवाह॑म् । अ॒र॒तिम् । दे॒वम् । ऋ॒ञ्ज॒से॒ ॥
Mantra 5
पा॒व॒कया॒ यश्चि॒तय॑न्त्या कृ॒पा क्षाम॑न्रुरु॒च उ॒षसो॒ न भा॒नुना॑। तूर्व॒न्न याम॒न्नेत॑शस्य॒ नू रण॒ आ यो घृ॒णे न त॑तृषा॒णो अ॒जरः॑ ॥५॥
पा॒व॒कया॑ । यः । चि॒तय॑न्त्या । कृ॒पा । क्षाम॑न् । रु॒रु॒चे । उ॒षसः॑ । न । भा॒नुना॑ । तूर्व॑न् । न । याम॑न् । एत॑शस्य । नु । रणे॑ । यः । घृ॒णे । न । त॒तृषा॒णः । अ॒जरः॑ ॥
Mantra 6
अ॒ग्निम॑ग्निं वः स॒मिधा॑ दुवस्यत प्रि॒यंप्रि॑यं वो॒ अति॑थिं गृणी॒षणि॑। उप॑ वो गी॒र्भिर॒मृतं॑ विवासत दे॒वो दे॒वेषु॒ वन॑ते॒ हि वार्यं॑ दे॒वो दे॒वेषु॒ वन॑ते॒ हि नो॒ दुवः॑ ॥६॥
अ॒ग्निम्ऽअ॑ग्निम् । वः॒ । स॒म्ऽइधा॑ । दु॒व॒स्य॒त॒ । प्रि॒यम्ऽप्रि॑यम् । वः॒ । अति॑थिम् । गृ॒णी॒षणि॑ । उप॑ । वः॒ । गीः॒ऽभिः । अ॒मृत॑म् । वि॒वा॒स॒त॒ । दे॒वः । दे॒वेषु॑ । वन॑ते । हि । वार्य॑म् । दे॒वः । दे॒वेषु॑ । वन॑ते । हि । नः॒ । दुवः॑ ॥
Mantra 7
समि॑द्धम॒ग्निं स॒मिधा॑ गि॒रा गृ॑णे॒ शुचिं॑ पाव॒कं पु॒रो अ॑ध्व॒रे ध्रु॒वम्। विप्रं॒ होता॑रं पुरु॒वार॑म॒द्रुहं॑ क॒विं सु॒म्नैरी॑महे जा॒तवे॑दसम् ॥७॥
सम्ऽइ॑द्धम् । अ॒ग्निम् । स॒म्ऽइधा॑ । गि॒रा । गृ॒णे॒ । शुचि॑म् । पा॒व॒कम् । पु॒रः । अ॒ध्व॒रे । ध्रु॒वम् । विप्र॑म् । होता॑रम् । पु॒रु॒ऽवार॑म् । अ॒द्रुह॑म् । क॒विम् । सु॒म्नैः । ई॒म॒हे॒ । जा॒तऽवे॑दसम् ॥
Mantra 8
त्वां दू॒तम॑ग्ने अ॒मृतं॑ यु॒गेयु॑गे हव्य॒वाहं॑ दधिरे पा॒युमीड्य॑म्। दे॒वास॑श्च॒ मर्ता॑सश्च॒ जागृ॑विं वि॒भुं वि॒श्पतिं॒ नम॑सा॒ नि षे॑दिरे ॥८॥
त्वाम् । दू॒तम् । अ॒ग्ने॒ । अ॒मृत॑म् । यु॒गेऽयु॑गे । ह॒व्य॒ऽवाह॑म् । द॒धि॒रे॒ । पा॒युम् । ईड्य॑म् । दे॒वासः॑ । च॒ । मर्ता॑सः । च॒ । जागृ॑विम् । वि॒ऽभुम् । वि॒श्पति॑म् । नम॑सा । नि । से॒दि॒रे॒ ॥
Mantra 9
वि॒भूष॑न्नग्न उ॒भयाँ॒ अनु॑ व्र॒ता दू॒तो दे॒वानां॒ रज॑सी॒ समी॑यसे। यत्ते॑ धी॒तिं सु॑म॒तिमा॑वृणी॒महेऽध॑ स्मा नस्त्रि॒वरू॑थः शि॒वो भ॑व ॥९॥
वि॒ऽभूष॑न् । अ॒ग्ने॒ । उ॒भया॒न् । अनु॑ । व्र॒ता । दू॒तः । दे॒वाना॑म् । रज॑सी॒ इति॑ । सम् । ई॒य॒से॒ । यत् । ते॒ । धी॒तिम् । सु॒ऽम॒तिम् । आ॒ऽवृ॒णी॒महे॑ । अध॑ । स्म॒ । नः॒ । त्रि॒ऽवरू॑थः । शि॒वः । भ॒व॒ ॥
Mantra 10
तं सु॒प्रती॑कं सु॒दृशं॒ स्वञ्च॒मवि॑द्वांसो वि॒दुष्ट॑रं सपेम। स य॑क्ष॒द् विश्वा॑ व॒युना॑नि वि॒द्वान्प्र ह॒व्यम॒ग्निर॒मृते॑षु वोचत् ॥१०॥
तम् । सु॒ऽप्रती॑कम् । सु॒ऽदृश॑म् । सु॒ऽअञ्च॑म् । अवि॑द्वांसः । वि॒दुःऽत॑रम् । स॒पे॒म॒ । सः । य॒क्ष॒त् । विश्वा॑ । व॒युना॑नि । वि॒द्वान् । प्र । ह॒व्यम् । अ॒ग्निः । अ॒मृते॑षु । वो॒च॒त् ॥
Mantra 11
तम॑ग्ने पास्यु॒त तं पि॑पर्षि॒ यस्त॒ आन॑ट्क॒वये॑ शूर धी॒तिम्। य॒ज्ञस्य॑ वा॒ निशि॑तिं॒ वोदि॑तिं वा॒ तमित्पृ॑णक्षि॒ शव॑सो॒त रा॒या ॥११॥
तम् । अ॒ग्ने॒ । पा॒सि॒ । उ॒त । तम् । पि॒प॒र्षि॒ । यः । ते॒ । आन॑ट् । क॒वये॑ । शू॒र॒ । धी॒तिम् । य॒ज्ञस्य॑ । वा॒ । निऽशि॑तिम् । वा॒ । उत्ऽइ॑तिम् । वा॒ । तम् । इत् । पृ॒ण॒क्षि॒ । शव॑सा । उ॒त । रा॒या ॥
Mantra 12
त्वम॑ग्ने वनुष्य॒तो नि पा॑हि॒ त्वमु॑ नः सहसावन्नव॒द्यात्। सं त्वा॑ ध्वस्म॒न्वद॒भ्ये॑तु॒ पाथः॒ सं र॒यिः स्पृ॑ह॒याय्यः॑ सह॒स्री ॥१२॥
त्वम् । अ॒ग्ने॒ । व॒नु॒ष्य॒तः । नि । पा॒हि॒ । त्वम् । ऊँ॒ इति॑ । नः॒ । स॒ह॒सा॒ऽव॒न् । अ॒व॒द्यात् । सम् । त्वा॒ । ध्व॒स्म॒न्ऽवत् । अ॒भि । ए॒तु॒ । पाथः॑ । सम् । र॒यिः । स्पृ॒ह॒याय्यः॑ । स॒ह॒स्री ॥
Mantra 13
अ॒ग्निर्होता॑ गृ॒हप॑तिः॒ स राजा॒ विश्वा॑ वेद॒ जनि॑मा जा॒तवे॑दाः। दे॒वाना॑मु॒त यो मर्त्या॑नां॒ यजि॑ष्ठः॒ स प्र य॑जतामृ॒तावा॑ ॥१३॥
अ॒ग्निः । होता॑ । गृ॒हऽप॑तिः । सः । राजा॑ । विश्वा॑ । वे॒द॒ । जनि॑म । जा॒तऽवे॑दाः । दे॒वाना॑म् । उ॒त । यः । मर्त्या॑नाम् । यजि॑ष्ठः । सः । प्र । य॒ज॒ता॒म् । ऋ॒तऽवा॑ ॥
Mantra 14
अग्ने॒ यद॒द्य वि॒शो अ॑ध्वरस्य होतः॒ पाव॑कशोचे॒ वेष्ट्वं हि यज्वा॑। ऋ॒ता य॑जासि महि॒ना वि यद्भूर्ह॒व्या व॑ह यविष्ठ॒ या ते॑ अ॒द्य ॥१४॥
अग्ने॑ । यत् । अ॒द्य । वि॒शः । अ॒ध्व॒र॒स्य॒ । हो॒त॒रिति॑ । पाव॑कऽशोचे । वेः । त्वम् । हि । यज्वा॑ । ऋ॒ता । य॒जा॒सि॒ । म॒हि॒ना । वि । यत् । भूः । ह॒व्या । व॒ह॒ । य॒वि॒ष्ठ॒ । या । ते॒ । अ॒द्य ॥
Mantra 15
अ॒भि प्रयां॑सि॒ सुधि॑तानि॒ हि ख्यो नि त्वा॑ दधीत॒ रोद॑सी॒ यज॑ध्यै। अवा॑ नो मघव॒न्वाज॑साता॒वग्ने॒ विश्वा॑नि दुरि॒ता त॑रेम॒ ता त॑रेम॒ तवाव॑सा तरेम ॥१५॥
अ॒भि । प्रयां॑सि । सुऽधि॑तानि । हि । ख्यः । नि । त्वा॒ । द॒धी॒त॒ । रोद॑सी॒ इति॑ । यज॑ध्यै । अव॑ । नः॒ । म॒घ॒ऽव॒न् । वाज॑ऽसातौ॑ । अग्ने॑ । विश्वा॑नि । दुः॒ऽइ॒ता । त॒रे॒म॒ । ता । त॒रे॒म॒ । तव॑ । अव॑सा । त॒रे॒म॒ ॥
Mantra 16
अग्ने॒ विश्वे॑भिः स्वनीक दे॒वैरूर्णा॑वन्तं प्रथ॒मः सी॑द॒ योनि॑म्। कु॒ला॒यिनं॑ घृ॒तव॑न्तं सवि॒त्रे य॒ज्ञं न॑य॒ यज॑मानाय सा॒धु ॥१६॥
अग्ने॑ । विश्वे॑भिः । सु॒ऽअ॒नी॒क॒ । दे॒वैः । ऊर्णा॑ऽवन्तम् । प्र॒थ॒मः । सी॒द॒ । योनि॑म् । कु॒ला॒यिन॑म् । घृ॒तऽव॑न्तम् । स॒वि॒त्रे । य॒ज्ञम् । न॒य॒ । यज॑मानाय । सा॒धु ॥
Mantra 17
इ॒ममु॒ त्यम॑थर्व॒वद॒ग्निं म॑न्थन्ति वे॒धसः॑। यम॑ङ्कू॒यन्त॒मान॑य॒न्नमू॑रं श्या॒व्या॑भ्यः ॥१७॥
इ॒मम् । ऊँ॒ इति॑ । त्यम् । अ॒थ॒र्व॒ऽवत् । अ॒ग्निम् । म॒न्थ॒न्ति॒ । वे॒धसः॑ । यम् । अ॒ङ्कु॒ऽयन्त॑म् । आ । अन॑यन् । अमू॑रम् । स्या॒व्या॑भ्यः ॥
Mantra 18
जनि॑ष्वा दे॒ववी॑तये स॒र्वता॑ता स्व॒स्तये॑। आ दे॒वान् व॑क्ष्य॒मृताँ॑ ऋता॒वृधो॑ य॒ज्ञं दे॒वेषु॑ पिस्पृशः ॥१८॥
जनि॑ष्व । दे॒वऽवी॑तये । स॒र्वऽता॑ता । स्व॒स्तये॑ । आ । दे॒वान् । व॒क्षि॒ । अ॒मृता॑न् । ऋ॒त॒ऽवृधः॑ । य॒ज्ञम् । दे॒वेषु॑ । पि॒स्पृ॒शः॒ ॥
Mantra 19
व॒यमु॑ त्वा गृहपते जनाना॒मग्ने॒ अक॑र्म स॒मिधा॑ बृ॒हन्त॑म्। अ॒स्थू॒रि नो॒ गार्ह॑पत्यानि सन्तु ति॒ग्मेन॑ न॒स्तेज॑सा॒ सं शि॑शाधि ॥१९॥
व॒यम् । ऊँ॒ इति॑ । त्वा॒ । गृ॒ह॒ऽप॒ते॒ । ज॒ना॒ना॒म् । अग्ने॑ । अक॑र्म । स॒म्ऽइधा॑ । बृ॒हन्त॑म् । अ॒स्थू॒रि । नः॒ । गार्ह॑पत्यानि । स॒न्तु॒ । ति॒ग्मेन॑ । नः॒ । तेज॑सा । सम् । सि॒शा॒धि॒ ॥