Mantra with Swara
अध॑ स्मास्य पनयन्ति॒ भासो॒ वृथा॒ यत्तक्ष॑दनु॒याति॑ पृ॒थ्वीम्। स॒द्यो यः स्य॒न्द्रो विषि॑तो॒ धवी॑यानृ॒णो न ता॒युरति॒ धन्वा॑ राट् ॥५॥
अध॑ । स्म॒ । अ॒स्य॒ । प॒न॒य॒न्ति॒ । भासः॑ । वृथा॑ । यत् । तक्ष॑त् । अ॒नु॒ऽयाति॑ । पृ॒थ्वीम् । स॒द्यः । यः । स्प॒न्द्रः । विऽसि॑तः । धवी॑यान् । ऋ॒णः । न । ता॒युः । अति॑ । धन्व॑ । राट् ॥
Mantra without Swara
अध स्मास्य पनयन्ति भासो वृथा यत्तक्षदनुयाति पृथ्वीम्। सद्यो यः स्यन्द्रो विषितो धवीयानृणो न तायुरति धन्वा राट् ॥
अध। स्म। अस्य। पनयन्ति। भासः। वृथा। यत्। तक्षत्। अनुऽयाति। पृथ्वीम्। सद्यः। यः। स्यन्द्रः। विऽसितः। धवीयान्। ऋणः। न। तायुः। अति। धन्व। राट् ॥५॥
Ashtak » 4
Adhyay » 5
Varga » 14
Mantra » 5
