Mantra with Swara
पु॒रो वो॑ म॒न्द्रं दि॒व्यं सु॑वृ॒क्तिं प्र॑य॒ति य॒ज्ञे अ॒ग्निम॑ध्व॒रे द॑धिध्वम्। पु॒र उ॒क्थेभिः॒ स हि नो॑ वि॒भावा॑ स्वध्व॒रा क॑रति जा॒तवे॑दाः ॥१॥
पु॒रः । वः॒ । म॒न्द्रम् । दि॒व्यम् । सु॒ऽवृ॒क्तिम् । प्र॒ऽय॒ति । य॒ज्ञे । अ॒ग्निम् । अ॒ध्व॒रे । द॒धि॒ध्व॒म् । पु॒रः । उ॒क्थेभिः॑ । सः । हि । नः॒ । वि॒भाऽवा॑ । सु॒ऽअ॒ध्व॒रा । का॒र॒ति॒ । जा॒तऽवे॑दाः ॥
Mantra without Swara
पुरो वो मन्द्रं दिव्यं सुवृक्तिं प्रयति यज्ञे अग्निमध्वरे दधिध्वम्। पुर उक्थेभिः स हि नो विभावा स्वध्वरा करति जातवेदाः ॥
पुरः। वः। मन्द्रम्। दिव्यम्। सुऽवृक्तिम्। प्रऽयति। यज्ञे। अग्निम्। अध्वरे। दधिध्वम्। पुरः। उक्थेभिः। सः। हि। नः। विभाऽवा। सुऽअध्वरा। करति। जातऽवेदाः ॥१॥
Ashtak » 4
Adhyay » 5
Varga » 12
Mantra » 1
