Mantra 1
त्वं ह्य॑ग्ने प्रथ॒मो म॒नोता॒स्या धि॒यो अभ॑वो दस्म॒ होता॑। त्वं सीं॑ वृषन्नकृणोर्दु॒ष्टरी॑तु॒ सहो॒ विश्व॑स्मै॒ सह॑से॒ सह॑ध्यै ॥१॥
त्वम् । हि । अ॒ग्ने॒ । प्र॒थ॒मः । म॒नोता॑ । अ॒स्याः । धि॒यः । अभ॑वः । दस्म॑ । होता॑ । त्वम् । सी॒म् । वृ॒ष॒न् । अ॒कृत॒णोः॒ । दु॒स्तरी॑तु । सहः॑ । विश्व॑स्मै । सह॑से । सह॑ध्यै ॥
Mantra 2
अधा॒ होता॒ न्य॑सीदो॒ यजी॑यानि॒ळस्प॒द इ॒षय॒न्नीड्यः॒ सन्। तं त्वा॒ नरः॑ प्रथ॒मं दे॑व॒यन्तो॑ म॒हो रा॒ये चि॒तय॑न्तो॒ अनु॑ ग्मन् ॥२॥
अध॑ । हाता॑ । नि । अ॒सी॒दः॒ । यजी॑यान् । इ॒ळः । प॒दे । इ॒षय॑न् । ईड्यः॑ । सन् । तम् । त्वा॒ । नरः॑ । प्र॒थ॒मम् । दे॒व॒ऽयन्तः॑ । म॒हः । रा॒ये । चि॒तय॑न्तः । अनु॑ । ग्म॒न् ॥
Mantra 3
वृ॒तेव॒ यन्तं॑ ब॒हुभि॑र्वस॒व्यै॒३॒॑स्त्वे र॒यिं जा॑गृ॒वांसो॒ अनु॑ ग्मन्। रुश॑न्तम॒ग्निं द॑र्श॒तं बृ॒हन्तं॑ व॒पाव॑न्तं वि॒श्वहा॑ दीदि॒वांस॑म् ॥३॥
वृ॒ताऽइ॑व । यन्त॑म् । ब॒हुऽभिः॑ । व॒स॒व्यैः॑ । त्वे इति॑ । र॒यिम् । जा॒गृ॒ऽवांसः॑ । अनु॑ । ग्म॒न् । रुश॑न्तम् । अ॒ग्निम् । द॒र्श॒तम् । बृ॒हन्त॑म् । व॒पाऽव॑न्तम् । वि॒श्वहा॑ । दी॒दि॒ऽवांस॑म् ॥
Mantra 4
प॒दं दे॒वस्य॒ नम॑सा॒ व्यन्तः॑ श्रव॒स्यवः॒ श्रव॑ आप॒न्नमृ॑क्तम्। नामा॑नि चिद् दधिरे य॒ज्ञिया॑नि भ॒द्रायां॑ ते रणयन्त॒ संदृ॑ष्टौ ॥४॥
प॒दम् । दे॒वस्य॑ । नम॑सा । व्यन्तः॑ । श्र॒व॒स्यवः॑ । श्रवः॑ । आ॒प॒न् । अमृ॑क्तम् । नामा॑नि । चि॒त् । द॒धि॒रे॒ । य॒ज्ञिया॑नि । भ॒द्राया॑म् । ते॒ । र॒ण॒य॒न्त॒ । सम्ऽदृ॑ष्टौ ॥
Mantra 5
त्वां व॑र्धन्ति क्षि॒तयः॑ पृथि॒व्यां त्वां राय॑ उ॒भया॑सो॒ जना॑नाम्। त्वं त्रा॒ता त॑रणे॒ चेत्यो॑ भूः पि॒ता मा॒ता सद॒मिन्मानु॑षाणाम् ॥५॥
त्वाम् । व॒र्ध॒न्ति॒ । क्षि॒तयः॑ । पृ॒थि॒व्याम् । त्वाम् । रायः॑ । उ॒भया॑सः । जना॑नाम् । त्वम् । त्रा॒ता । त॒र॒णे॒ । चेत्यः॑ । भूः॒ । पि॒ता । मा॒ता । सद॑म् । इत् । मानु॑षाणाम् ॥
Mantra 6
स॒प॒र्येण्यः॒ स प्रि॒यो वि॒क्ष्व१॒॑ग्निर्होता॑ म॒न्द्रो नि ष॑सादा॒ यजी॑यान्। तं त्वा॑ व॒यं दम॒ आ दी॑दि॒वांस॒मुप॑ ज्ञु॒बाधो॒ नम॑सा सदेम ॥६॥
स॒प॒र्येण्यः॑ । सः । प्रि॒यः । वि॒क्षु । अ॒ग्निः । होता॑ । म॒न्द्रः । नि । सि॒सा॒द॒ । यजी॑यान् । तम् । त्वा॒ । व॒यम् । दमे॑ । आ । दी॒दि॒ऽवांस॑म् । उप॑ । ज्ञु॒ऽबाधः॑ । नम॑सा । स॒दे॒म॒ ॥
Mantra 7
तं त्वा॑ व॒यं सु॒ध्यो॒३॒॑ नव्य॑मग्ने सुम्ना॒यव॑ ईमहे देव॒यन्तः॑। त्वं विशो॑ अनयो॒ दीद्या॑नो दि॒वो अ॑ग्ने बृह॒ता रो॑च॒नेन॑ ॥७॥
त्वम् । त्वा॒ । व॒यम् । सु॒ऽध्यः॑ । नव्य॑म् । अ॒ग्ने॒ । सु॒म्न॒ऽयवः॑ । ई॒म॒हे॒ । दे॒व॒ऽयन्तः॑ । त्वम् । विशः॑ । अ॒न॒यः॒ । दीद्या॑नः । दि॒वः । अ॒ग्ने॒ । बृ॒ह॒ता । रो॒च॒नेन॑ ॥
Mantra 8
वि॒शां क॒विं वि॒श्पतिं॒ शश्व॑तीनां नि॒तोश॑नं वृष॒भं च॑र्षणी॒नाम्। प्रेती॑षणिमि॒षय॑न्तं पाव॒कं राज॑न्तम॒ग्निं य॑ज॒तं र॑यी॒णाम् ॥८॥
वि॒शाम् । क॒विम् । वि॒श्पति॑म् । शश्व॑तीनाम् । नि॒ऽतोश॑नम् । वृ॒ष॒भम् । च॒र्ष॒णी॒नाम् । प्रेति॑ऽइषणिम् । इ॒षय॑न्तम् । पा॒व॒कम् । राज॑न्तम् । अ॒ग्निम् । य॒ज॒तम् । र॒यी॒णाम् ॥
Mantra 9
सो अ॑ग्न ईजे शश॒मे च॒ मर्तो॒ यस्त॒ आन॑ट् स॒मिधा॑ ह॒व्यदा॑तिम्। य आहु॑तिं॒ परि॒ वेदा॒ नमो॑भि॒र्विश्वेत्स वा॒मा द॑धते॒ त्वोतः॑ ॥९॥
सः । अ॒ग्ने॒ । ई॒जे॒ । श॒श॒मे । च॒ । मर्तः॑ । यः । ते॒ । आन॑ट् । स॒म्ऽइधा॑ । ह॒व्यऽदा॑तिम् । यः । आऽहु॑तिम् । परि॑ । वे॒द॒ । नमः॑ऽभिः । विश्वा॑ । इत् । सः । वा॒मा । द॒ध॒ते॒ । त्वाऽऊ॑तः ॥
Mantra 10
अ॒स्मा उ॑ ते॒ महि॑ म॒हे वि॑धेम॒ नमो॑भिरग्ने स॒मिधो॒त ह॒व्यैः। वेदी॑ सूनो सहसो गी॒र्भिरु॒क्थैरा ते॑ भ॒द्रायां॑ सुम॒तौ य॑तेम ॥१०॥
अ॒स्म्सि । ऊँ॒ इति॑ । ते॒ । महि॑ । म॒हे । वि॒धे॒म॒ । नमः॑ऽभिः । अ॒ग्ने॒ । स॒म्ऽइधा । उ॒त । ह॒व्यैः । वेदी॑ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । गीः॒ऽभिः । उ॒क्थैः । आ । ते॒ । भ॒द्राया॑म् । सु॒ऽम॒तौ । या॒ते॒म॒ ॥
Mantra 11
आ यस्त॒तन्थ॒ रोद॑सी॒ वि भा॒सा श्रवो॑भिश्च श्रव॒स्य१॒॑स्तरु॑त्रः। बृ॒हद्भि॒र्वाजैः॒ स्थवि॑रेभिर॒स्मे रे॒वद्भि॑रग्ने वित॒रं वि भा॑हि ॥११॥
आ । यः । त॒तन्थ॑ । रोद॑सी॒ इति॑ । वि । भा॒सा । श्रवः॑ऽभिः । च॒ । श्र॒व॒स्यः॑ । तरु॑त्रः । बृ॒हत्ऽभिः॑ । वाजैः॑ । स्थवि॑रेभिः । अ॒स्मे इति॑ । रे॒वत्ऽभिः॑ । अ॒ग्ने॒ । वि॒ऽत॒रम् । वि । भा॒हि॒ ॥
Mantra 12
नृ॒वद्व॑सो॒ सद॒मिद्धे॑ह्य॒स्मे भूरि॑ तो॒काय॒ तन॑याय प॒श्वः। पू॒र्वीरिषो॑ बृह॒तीरा॒रेअ॑घा अ॒स्मे भ॒द्रा सौ॑श्रव॒सानि॑ सन्तु ॥१२॥
नृ॒ऽवत् । व॒सो॒ इति॑ । सद॑म् । इत् । धे॒हि॒ । अ॒स्मे इति॑ । भूरि॑ । तो॒काय॑ । तन॑याय । प॒श्वः । पू॒र्वीः । इषः॑ । बृ॒ह॒तीः । आ॒रेऽअ॑घाः । अ॒स्मे इति॑ । भ॒द्रा । सौ॒श्र॒व॒सानि॑ । स॒न्तु॒ ॥
Mantra 13
पु॒रूण्य॑ग्ने पुरु॒धा त्वा॒या वसू॑नि राजन्व॒सुता॑ ते अश्याम्। पु॒रूणि॒ हि त्वे पु॑रुवार॒ सन्त्यग्ने॒ वसु॑ विध॒ते राज॑नि॒ त्वे ॥१३॥
पु॒रूणि॑ । अ॒ग्ने॒ । पु॒रु॒धा । त्वा॒ऽया । वसू॑नि । रा॒ज॒न् । व॒सुता॑ । ते॒ । अ॒श्या॒म् । पु॒रूणि । हि । त्वे इति॑ । पु॒रु॒ऽवा॒र॒ । सन्ति॑ । अग्ने॑ । वसु॑ । वि॒ध॒ते । राज॑नि । त्वे इति॑ ॥