Mantra 1
प्र स॒म्राजे॑ बृ॒हद॑र्चा गभी॒रं ब्रह्म॑ प्रि॒यं वरु॑णाय श्रु॒ताय॑। वि यो ज॒घान॑ शमि॒तेव॒ चर्मो॑प॒स्तिरे॑ पृथि॒वीं सूर्या॑य ॥१॥
प्र । स॒म्ऽराजे॑ । बृ॒हत् । अ॒र्च॒ । ग॒भी॒रम् । ब्रह्म॑ । प्रि॒यम् । वरु॑णाय । श्रु॒ताय॑ । वि । यः । ज॒घान॑ । श॒मि॒ताऽइ॑व । चर्म॑ । उ॒प॒ऽस्तिरे॑ । पृ॒थि॒वीम् । सूर्या॑य ॥
Mantra 2
वने॑षु॒ व्य१॒॑न्तरि॑क्षं ततान॒ वाज॒मर्व॑त्सु॒ पय॑ उ॒स्रिया॑सु। हृ॒त्सु क्रतुं॒ वरु॑णो अ॒प्स्व१॒॑ग्निं दि॒वि सूर्य॑मदधा॒त्सोम॒मद्रौ॑ ॥२॥
वने॑षु । वि । अ॒न्तरि॑क्षम् । त॒ता॒न॒ । वाज॑म् । अर्व॑त्ऽसु । पयः॑ । उ॒स्रिया॑सु । हृ॒त्ऽसु । क्रतु॑म् । वरु॑णः । अ॒प्ऽसु । अ॒ग्निम् । दि॒वि । सूर्य॑म् । अ॒द॒धा॒त् । सोम॑म् । अद्रौ॑ ॥
Mantra 3
नी॒चीन॑बारं॒ वरु॑णः॒ कव॑न्धं॒ प्र स॑सर्ज॒ रोद॑सी अ॒न्तरि॑क्षम्। तेन॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॒ यवं॒ न वृ॒ष्टिर्व्यु॑नत्ति॒ भूम॑ ॥३॥
नी॒चीन॑ऽबारम् । वरु॑णः । कव॑न्धम् । प्र । स॒स॒र्ज॒ । रोद॑सी॒ इति॑ । अ॒न्तरि॑क्षम् । तेन॑ । विश्व॑स्य । भुव॑नस्य । राजा॑ । यव॑म् । न । वृ॒ष्टिः । वि । उ॒न॒त्ति॒ । भूम॑ ॥
Mantra 4
उ॒नत्ति॒ भूमिं॑ पृथि॒वीमु॒त द्यां य॒दा दु॒ग्धं वरु॑णो॒ वष्ट्यादित्। सम॒भ्रेण॑ वसत॒ पर्व॑तासस्तविषी॒यन्तः॑ श्रथयन्त वी॒राः ॥४॥
उ॒नत्ति॑ । भूमि॑म् । पृ॒थि॒वीम् । उ॒त । द्याम् । य॒दा । दु॒ग्धम् । वरु॑णः । व॒ष्टि॒ । आत् । इत् । सम् । अ॒भ्रेण॑ । व॒स॒त॒ । पर्व॑तासः । त॒वि॒षी॒ऽयन्तः॑ । श्र॒थ॒य॒न्त॒ । वी॒राः ॥
Mantra 5
इ॒मामू॒ ष्वा॑सु॒रस्य॑ श्रु॒तस्य॑ म॒हीं मा॒यां वरु॑णस्य॒ प्र वो॑चम्। माने॑नेव तस्थि॒वाँ अ॒न्तरि॑क्षे॒ वि यो म॒मे पृ॑थि॒वीं सूर्ये॑ण ॥५॥
इमाम् । ऊँ॒ इति॑ । सु । आ॒सु॒रस्य॑ । श्रु॒तस्य॑ । म॒हीम् । मा॒याम् । वरु॑णस्य॑ । प्र । वो॒च॒म् । माने॑नऽइव । त॒स्थि॒ऽवान् । अ॒न्तरि॑क्षे । वि । यः । म॒मे । पृ॒थि॒वीम् । सूर्ये॑ण ॥
Mantra 6
इ॒मामू॒ नु क॒वित॑मस्य मा॒यां म॒हीं दे॒वस्य॒ नकि॒रा द॑धर्ष। एकं॒ यदु॒द्ना न पृ॒णन्त्येनी॑रासि॒ञ्चन्ती॑र॒वन॑यः समु॒द्रम् ॥६॥
इ॒माम् । ऊँ॒ इति॑ । नु । क॒विऽत॑मस्य । मा॒याम् । म॒हीम् । दे॒वस्य॑ । नकिः॑ । आ । द॒ध॒र्ष॒ । एक॑म् । यत् । उ॒द्ना । न । पृ॒णन्ति॑ । एनीः॑ । आ॒ऽसि॒ञ्चन्तीः॑ । अ॒वन॑यः । स॒मु॒द्रम् ॥
Mantra 7
अ॒र्य॒म्यं॑ वरुण मि॒त्र्यं॑ वा॒ सखा॑यं वा॒ सद॒मिद्भ्रात॑रं वा। वे॒शं वा॒ नित्यं॑ वरु॒णार॑णं वा॒ यत्सी॒माग॑श्चकृ॒मा शि॒श्रथ॒स्तत् ॥७॥
अ॒र्य॒म्य॑म् । व॒रु॒ण॒ । मि॒त्र्य॑म् । वा॒ । सखा॑यम् । वा॒ । सद॑म् । इत् । भ्रात॑रम् । वा॒ । वे॒शम् । वा॒ । नित्य॑म् । व॒रु॒ण॒ । अर॑णम् । वा॒ । यत् । सी॒म् । आगः॑ । च॒कृ॒म । शि॒श्रथः॑ । तत् ॥
Mantra 8
कि॒त॒वासो॒ यद्रि॑रि॒पुर्न दी॒वि यद्वा॑ घा स॒त्यमु॒त यन्न वि॒द्म। सर्वा॒ ता वि ष्य॑ शिथि॒रेव॑ दे॒वाधा॑ ते स्याम वरुण प्रि॒यासः॑ ॥८॥
कि॒त॒वासः॑ । यत् । रि॒रि॒पुः । न । दी॒वि । यत् । वा॒ । घ॒ । स॒त्यम् । उ॒त । यत् । न । वि॒द्म । सर्वा॑ । ता । वि । स्य॒ । शि॒थि॒राऽइ॑व । दे॒व॒ । अध॑ । ते॒ । स्या॒म॒ । व॒रु॒ण॒ । प्रि॒यासः॑ ॥