Mantra with Swara
य इ॒मे उ॒भे अह॑नी पु॒र एत्यप्र॑युच्छन्। स्वा॒धीर्दे॒वः स॑वि॒ता ॥८॥
यः । इ॒मे इति॑ । उ॒भे इति॑ । अह॑नी॒ इति॑ । पु॒रः । एति॑ । अप्र॑ऽयुच्छन् । सु॒ऽआ॒धीः । दे॒वः । स॒वि॒ता ॥
Mantra without Swara
य इमे उभे अहनी पुर एत्यप्रयुच्छन्। स्वाधीर्देवः सविता ॥
यः। इमे । उभे इति। अहनी इति। पुरः। एति। अप्रऽयुच्छन्। सुऽआधीः। देवः। सविता ॥८॥
Ashtak » 4
Adhyay » 4
Varga » 26
Mantra » 3
