Mantra with Swara
यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑। वि होत्रा॑ दधे वयुना॒विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः ॥१॥
यु॒ञ्जते॑ । मनः॑ । उ॒त । यु॒ञ्जते॑ । धियः॑ । विप्राः॑ । विप्र॑स्य । बृ॒ह॒तः । वि॒पः॒ऽचितः॑ । वि । होत्राः॑ । द॒धे॒ । व॒यु॒न॒ऽवित् । एकः॑ । इत् । म॒ही । दे॒वस्य॑ । स॒वि॒तुः । परि॑ऽस्तुतिः ॥
Mantra without Swara
युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः। वि होत्रा दधे वयुनाविदेक इन्मही देवस्य सवितुः परिष्टुतिः ॥
युञ्जते। मनः। उत। युञ्जते। धियः। विप्राः। विप्रस्य। बृहतः। विपःऽचितः। वि। होत्राः। दधे। वयुनऽवित्। एकः। इत्। मही। देवस्य। सवितुः। परिऽस्तुतिः ॥१॥
Ashtak » 4
Adhyay » 4
Varga » 24
Mantra » 1
