Mantra with Swara
ए॒षा प्र॑ती॒ची दु॑हि॒ता दि॒वो नॄन्योषे॑व भ॒द्रा नि रि॑णीते॒ अप्सः॑। व्यू॒र्ण्व॒ती दा॒शुषे॒ वार्या॑णि॒ पुन॒र्ज्योति॑र्युव॒तिः पू॒र्वथा॑कः ॥६॥
ए॒षा । प्र॒ती॒ची । दु॒हि॒ता । दि॒वः । नॄन् । योषा॑ऽइव । भ॒द्रा । नि । रि॒णी॒ते॒ । अप्सः॑ । वि॒ऽऊ॒र्ण्व॒ती । दा॒शुषे॑ । वार्या॑णि । पुनः॑ । ज्योतिः॑ । यु॒व॒तिः । पू॒र्वऽथा॑ । अ॒क॒रित्य॑कः ॥
Mantra without Swara
एषा प्रतीची दुहिता दिवो नॄन्योषेव भद्रा नि रिणीते अप्सः। व्यूर्ण्वती दाशुषे वार्याणि पुनर्ज्योतिर्युवतिः पूर्वथाकः ॥
एषा। प्रतीची। दुहिता। दिवः। नॄन्। योषाऽइव। भद्रा। नि। रिणीते। अप्सः। विऽऊर्ण्वती। दाशुषे। वार्याणि। पुनः। ज्योतिः। युवतिः। पूर्वऽथा। अकरित्यकः ॥६॥
Ashtak » 4
Adhyay » 4
Varga » 23
Mantra » 6
