Mantra with Swara
अत्रि॒र्यद्वा॑मव॒रोह॑न्नृ॒बीस॒मजो॑हवी॒न्नाध॑मानेव॒ योषा॑। श्ये॒नस्य॑ चि॒ज्जव॑सा॒ नूत॑ने॒नाग॑च्छतमश्विना॒ शंत॑मेन ॥४॥
अत्रिः॑ । यत् । वा॒म् । अ॒व॒ऽरोह॑न् । ऋ॒बीस॑म् । अजो॑हवीत् । नाध॑मानाऽइव । योषा॑ । श्ये॒नस्य॑ । चि॒त् । जव॑सा । नूत॑नेन । आ । अ॒ग॒च्छ॒त॒म् । अ॒श्वि॒ना॒ । शम्ऽत॑मेन ॥
Mantra without Swara
अत्रिर्यद्वामवरोहन्नृबीसमजोहवीन्नाधमानेव योषा। श्येनस्य चिज्जवसा नूतनेनागच्छतमश्विना शंतमेन ॥
अत्रिः। यत्। वाम्। अवऽरोहन्। ऋबीसम्। अजोहवीत्। नाधमानाऽइव। योषा। श्येनस्य। चित्। जवसा। नूतनेन। आ। अगच्छतम्। अश्विना। शम्ऽतमेन ॥४॥
Ashtak » 4
Adhyay » 4
Varga » 19
Mantra » 4
