Mantra with Swara
इरा॑वतीर्वरुण धे॒नवो॑ वां॒ मधु॑मद्वां॒ सिन्ध॑वो मित्र दुह्रे। त्रय॑स्तस्थुर्वृष॒भास॑स्तिसृ॒णां धि॒षणा॑नां रेतो॒धा वि द्यु॒मन्तः॑ ॥२॥
इरा॑ऽवतीः । व॒रु॒ण॒ । धे॒नवः॑ । वा॒म् । मधु॑ऽमत् । वा॒म् । सिन्ध॑वः । मि॒त्र॒ । दु॒ह्रे॒ । त्रयः॑ । त॒स्थुः॒ । वृ॒ष॒भासः॑ । ति॒सॄ॒णाम् । धि॒षणा॑नाम् । रे॒तः॒ऽधाः । वि । द्यु॒ऽमन्तः॑ ॥
Mantra without Swara
इरावतीर्वरुण धेनवो वां मधुमद्वां सिन्धवो मित्र दुह्रे। त्रयस्तस्थुर्वृषभासस्तिसृणां धिषणानां रेतोधा वि द्युमन्तः ॥
इरावतीः। वरुण। धेनवः। वाम्। मधुऽमत्। वाम्। सिन्धवः। मित्र। दुह्रे। त्रयः। तस्थुः। वृषभासः। तिसृणाम्। धिषणानाम्। रेतःऽधाः। वि। द्युऽमन्तः ॥२॥
Ashtak » 4
Adhyay » 4
Varga » 7
Mantra » 2
