Mantra with Swara
स॒म्राजा॑व॒स्य भुव॑नस्य राजथो॒ मित्रा॑वरुणा वि॒दथे॑ स्व॒र्दृशा॑। वृ॒ष्टिं वां॒ राधो॑ अमृत॒त्वमी॑महे॒ द्यावा॑पृथि॒वी वि च॑रन्ति त॒न्यवः॑ ॥२॥
स॒म्ऽराजौ॑ । अ॒स्य । भुव॑नस्य । रा॒ज॒थः॒ । मित्रा॑वरुणा । वि॒दथे॑ । स्वः॒ऽदृशा॑ । वृ॒ष्टिम् । वा॒म् । राधः॑ । अ॒मृ॒त॒ऽत्वम् । ई॒म॒हे॒ । द्यावा॑पृथि॒वी इति॑ । वि । च॒र॒न्ति॒ । त॒न्यवः॑ ॥
Mantra without Swara
सम्राजावस्य भुवनस्य राजथो मित्रावरुणा विदथे स्वर्दृशा। वृष्टिं वां राधो अमृतत्वमीमहे द्यावापृथिवी वि चरन्ति तन्यवः ॥
सम्ऽराजौ। अस्य। भुवनस्य। राजथः। मित्रावरुणा। विदथे। स्वःऽदृशा। वृष्टिम्। वाम्। राधः। अमृतऽत्वम्। ईमहे। द्यावापृथिवी इति। वि। चरन्ति। तन्यवः ॥२॥
Ashtak » 4
Adhyay » 4
Varga » 1
Mantra » 2
