Mantra 1
के ष्ठा॑ नरः॒ श्रेष्ठ॑तमा॒ य एक॑एक आय॒य। प॒र॒मस्याः॑ परा॒वतः॑ ॥१॥
कः । स्थ॒ । न॒रः॒ । श्रेष्ठ॑ऽतमाः । ये । एकः॑ऽएकः । आ॒ऽय॒य । प॒र॒मस्याः॑ । प॒रा॒ऽवतः॑ ॥
Mantra 2
क्व१॒॑ वोऽश्वाः॒ क्वा॒३॒॑भीश॑वः क॒थं शे॑क क॒था य॑य। पृ॒ष्ठे सदो॑ न॒सोर्यमः॑ ॥२॥
क्व॑ । वः॒ । अश्वाः॑ । क्व॑ । अ॒भीश॑वः । क॒थम् । शे॒क॒ । क॒था । य॒य॒ । पृ॒ष्ठे । सदः॑ । न॒सोः । यमः॑ ॥
Mantra 3
ज॒घने॒ चोद॑ एषां॒ वि स॒क्थानि॒ नरो॑ यमुः। पु॒त्र॒कृ॒थे न जन॑यः ॥३॥
ज॒घने॑ । चोदः॑ । ए॒षा॒म् । वि । स॒क्थानि॑ । नरः॑ । य॒मुः॒ । पु॒त्र॒ऽकृ॒थे । न । जन॑यः ॥
Mantra 4
परा॑ वीरास एतन॒ मर्या॑सो॒ भद्र॑जानयः। अ॒ग्नि॒तपो॒ यथास॑थ ॥४॥
परा॑ । वी॒रा॒सः॒ । इ॒त॒न॒ । मर्या॑सः । भद्र॑ऽजानयः । अ॒ग्नि॒ऽतपः॑ । यथा॑ । अस॑थ ॥
Mantra 5
सन॒त्साश्व्यं॑ प॒शुमु॒त गव्यं॑ श॒ताव॑यम्। श्या॒वाश्व॑स्तुताय॒ या दोर्वी॒रायो॑प॒बर्बृ॑हत् ॥५॥
सन॑त् । सा । अश्व्य॑म् । प॒शुम् । उ॒त । गव्य॑म् । श॒तऽअ॑वयम् । श्या॒वाश्व॑ऽस्तुताय । या । दोः । वी॒राय॑ । उ॒प॒ऽबर्बृ॑हत् ॥
Mantra 6
उ॒त त्वा॒ स्त्री शशी॑यसी पुं॒सो भ॑वति॒ वस्य॑सी। अदे॑वत्रादरा॒धसः॑ ॥६॥
उ॒त । त्वा॒ । स्त्री । शशी॑यसी । पुं॒सः । भ॒व॒ति॒ । वस्य॑सी । अदे॑वऽत्रात् । अ॒रा॒धसः॑ ॥
Mantra 7
वि या जा॒नाति॒ जसु॑रिं॒ वि तृष्य॑न्तं॒ वि का॒मिन॑म्। दे॒व॒त्रा कृ॑णु॒ते मनः॑ ॥७॥
वि । या । जा॒नाति॑ । जसु॑रिम् । वि । तृष्य॑न्तम् । वि । का॒मिन॑म् । दे॒व॒ऽत्रा । कृ॒णु॒ते । मनः॑ ॥
Mantra 8
उ॒त घा॒ नेमो॒ अस्तु॑तः॒ पुमाँ॒ इति॑ ब्रुवे प॒णिः। स वैर॑देय॒ इत्स॒मः ॥८॥
उ॒त । घ॒ । नेमः॑ । अस्तु॑तः । पुमा॑न् । इति॑ । ब्रु॒वे॒ । प॒णिः । सः । वैर॑ऽदेये । इत् । स॒मः ॥
Mantra 9
उ॒त मे॑ऽरपद्युव॒तिर्म॑म॒न्दुषी॒ प्रति॑ श्या॒वाय॑ वर्त॒निम्। वि रोहि॑ता पुरुमी॒ळ्हाय॑ येमतु॒र्विप्रा॑य दी॒र्घय॑शसे ॥९॥
उ॒त । मे॒ । अ॒र॒प॒त् । यु॒व॒तिः । म॒म॒न्दुषी॑ । प्रति॑ । श्या॒वाय॑ । व॒र्त॒निम् । वि । रोहि॑ता । पु॒रु॒ऽमी॒ळ्हाय॑ । ये॒म॒तुः॒ । विप्रा॑य । दी॒र्घऽय॑शसे ॥
Mantra 10
यो मे॑ धेनू॒नां श॒तं वैद॑दश्वि॒र्यथा॒ दद॑त्। त॒र॒न्तइ॑व मं॒हना॑ ॥१०॥
यः । मे॒ । धे॒नू॒नाम् । श॒तम् । वैद॑त्ऽअश्विः । यथा॑ । दद॑त् । त॒र॒न्तःऽइ॑व । मं॒हना॑ ॥
Mantra 11
य ईं॒ वह॑न्त आ॒शुभिः॒ पिब॑न्तो मदि॒रं मधु॑। अत्र॒ श्रवां॑सि दधिरे ॥११॥
ये । ई॒म् । वह॑न्ते । आ॒शुऽभिः॑ । पिब॑न्तः । म॒दि॒रम् । मधु॑ । अत्र॑ । श्रवां॑सि । द॒धि॒रे॒ ॥
Mantra 12
येषां॑ श्रि॒याधि॒ रोद॑सी वि॒भ्राज॑न्ते॒ रथे॒ष्वा। दि॒वि रु॒क्मइ॑वो॒परि॑ ॥१२॥
येषा॑म् । श्रि॒या । अधि॑ । रोद॑सी॒ इति॑ । वि॒ऽभ्राज॑न्ते । रथे॑षु । आ । दि॒वि । रु॒क्मःऽइ॑व । उ॒परि॑ ॥
Mantra 13
युवा॒ स मारु॑तो ग॒णस्त्वे॒षर॑थो॒ अने॑द्यः। शु॒भं॒यावाप्र॑तिष्कुतः ॥१३॥
युवा॑ । सः । मारु॑तः । ग॒णः । त्वे॒षऽर॑थः । अने॑द्यः । शु॒भ॒म्ऽयावा॑ । अप्र॑तिऽस्कुतः ॥
Mantra 14
को वे॑द नू॒नमे॑षां॒ यत्रा॒ मद॑न्ति॒ धूत॑यः। ऋ॒तजा॑ता अरे॒पसः॑ ॥१४॥
कः । वे॒द॒ । नू॒नम् । ए॒षा॒म् । यत्र॑ । मद॑न्ति । धूत॑यः । ऋ॒तऽजा॑ताः । अ॒रे॒पसः॑ ॥
Mantra 15
यू॒यं मर्तं॑ विपन्यवः प्रणे॒तार॑ इ॒त्था धि॒या। श्रोता॑रो॒ याम॑हूतिषु ॥१५॥
यू॒यम् । मर्त॑म् । वि॒प॒न्य॒वः॒ । प्र॒ऽने॒तारः॑ । इ॒त्था । धि॒या । श्रोता॑रः । याम॑ऽहूतिषु ॥
Mantra 16
ते नो॒ वसू॑नि॒ काम्या॑ पुरुश्च॒न्द्रा रि॑शादसः। आ य॑ज्ञियासो ववृत्तन ॥१६॥
ते । नः॒ । वसू॑नि । काम्या॑ । पु॒रु॒ऽच॒न्द्राः । रि॒शा॒द॒सः॒ । आ । य॒ज्ञि॒या॒सः॒ । व॒वृ॒त्त॒न॒ ॥
Mantra 17
ए॒तं मे॒ स्तोम॑मूर्म्ये दा॒र्भ्याय॒ परा॑ वह। गिरो॑ देवि र॒थीरि॑व ॥१७॥
ए॒तम् । मे॒ । स्तोम॑म् । ऊ॒र्म्ये । दा॒र्भ्याय॑ । परा॑ । व॒ह॒ । गिरः॑ । दे॒वि॒ । र॒थीःऽइ॑व ॥
Mantra 18
उ॒त मे॑ वोचता॒दिति॑ सू॒तसो॑मे॒ रथ॑वीतौ। न कामो॒ अप॑ वेति मे ॥१८॥
उ॒त । मे॒ । वो॒च॒ता॒त् । इति॑ । सु॒तऽसो॑मे । रथ॑ऽवीतौ । न । कामः॑ । अप॑ । वे॒ति॒ । मे॒ ॥
Mantra 19
ए॒ष क्षे॑ति॒ रथ॑वीतिर्म॒घवा॒ गोम॑ती॒रनु॑। पर्व॑ते॒ष्वप॑श्रितः ॥१९॥
ए॒षः । क्षे॒ति॒ । रथ॑ऽवीतिः । म॒घऽवा॑ । गोऽम॑तीः । अनु॑ । पर्व॑तेषु । अप॑ऽश्रितः ॥