Mantra 1
अ॒ग्निं तं म॑न्ये॒ यो वसु॒रस्तं॒ यं यन्ति॑ धे॒नवः॑। अस्त॒मर्व॑न्त आ॒शवोऽस्तं॒ नित्या॑सो वा॒जिन॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥१॥
अ॒ग्निम् । तम् । म॒न्ये॒ । यः । वसुः॑ । अस्त॑म् । यम् । यन्ति॑ । धे॒नवः॑ । अस्त॑म् । अर्व॑न्तः । आ॒शवः॑ । अस्त॑म् । नित्या॑सः । वा॒जिनः॑ । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥
Mantra 2
सो अ॒ग्निर्यो वसु॑र्गृ॒णे सं यमा॒यन्ति॑ धे॒नवः॑। समर्व॑न्तो रघु॒द्रुवः॒ सं सु॑जा॒तासः॑ सू॒रय॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥२॥
सः । अ॒ग्निः । यः । वसुः॑ । गृ॒णे । सम् । यम् । आ॒ऽयन्ति॑ । धे॒नवः॑ । सम् । अर्व॑न्तः । र॒घु॒ऽद्रुवः॑ । सम् । सु॒ऽजा॒तासः॑ । सू॒रय । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥
Mantra 3
अ॒ग्निर्हि वा॒जिनं॑ वि॒शे ददा॑ति वि॒श्वच॑र्षणिः। अ॒ग्नी रा॒ये स्वा॒भुवं॒ स प्री॒तो या॑ति॒ वार्य॒मिषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥३॥
अ॒ग्निः । हि । वा॒जिन॑म् । वि॒शे । ददा॑ति । वि॒श्वऽच॑र्षणिः । अ॒ग्निः । रा॒ये । सु॒ऽआ॒भुव॑म् । सः । प्री॒तः । या॒ति॒ । वार्य॑म् । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥
Mantra 4
आ ते॑ अग्न इधीमहि द्यु॒मन्तं॑ देवा॒जर॑म्। यद्ध॒ स्या ते॒ पनी॑यसी स॒मिद्दी॒दय॑ति॒ द्यवीषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥४॥
आ । ते॒ । अ॒ग्ने॒ । इ॒धी॒म॒हि॒ । द्यु॒ऽमन्त॑म् । दे॒व॒ । अ॒जर॑म् । यत् । ह॒ । स्या । ते॒ । पनी॑यसी । स॒म्ऽइत् । दी॒दय॑ति । द्यवि॑ । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥
Mantra 5
आ ते॑ अग्न ऋ॒चा ह॒विः शुक्र॑स्य शोचिषस्पते। सुश्च॑न्द्र॒ दस्म॒ विश्प॑ते॒ हव्य॑वा॒ट् तुभ्यं॑ हूयत॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥५॥
आ । ते॒ । अ॒ग्ने॒ । ऋ॒चा । ह॒विः । शुक्र॑स्य । शो॒चि॒षः॒ । प॒ते॒ । सुऽच॑न्द्र । दस्म॑ । विश्प॑ते । हव्य॑ऽवाट् । तुभ्य॑म् । हू॒य॒ते॒ । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥
Mantra 6
प्रो त्ये अ॒ग्नयो॒ऽग्निषु॒ विश्वं॑ पुष्यन्ति॒ वार्य॑म्। ते हि॑न्विरे॒ त इ॑न्विरे॒ त इ॑षण्यन्त्यानु॒षगिषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥६॥
प्रो इति॑ । त्ये । अ॒ग्नयः॑ । अ॒ग्निषु॑ । विश्व॑म् । पु॒ष्य॒न्ति॒ । वार्य॑म् । ते । हि॒न्वि॒रे॒ । ते । इ॒न्वि॒रे॒ । ते । इ॒ष॒ण्य॒न्ति॒ । आ॒नु॒षक् । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥
Mantra 7
तव॒ त्ये अ॑ग्ने अ॒र्चयो॒ महि॑ व्राधन्त वा॒जिनः॑। ये पत्व॑भिः श॒फानां॑ व्र॒जा भु॒रन्त॒ गोना॒मिषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥७॥
तव॑ । त्ये । अ॒ग्ने॒ । अ॒र्चयः॑ । महि॑ । व्रा॒ध॒न्त॒ । वा॒जिनः॑ । ये । पत्व॑ऽभिः । श॒फाना॑म् । व्र॒जा । भु॒रन्त॑ । गोना॑म् । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥
Mantra 8
नवा॑ नो अग्न॒ आ भ॑र स्तो॒तृभ्यः॑ सुक्षि॒तीरिषः॑। ते स्या॑म॒ य आ॑नृ॒चुस्त्वादू॑तासो॒ दमे॑दम॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥८॥
नवाः॑ । नः॒ । अ॒ग्ने॒ । आ । भ॒र॒ । स्तो॒तृऽभ्यः॑ । सु॒ऽक्षि॒तीः । इषः॑ । ते । स्या॒म॒ । ये । आ॒नृ॒चुः । त्वाऽदू॑तासः । दमे॑ऽदमे । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥
Mantra 9
उ॒भे सु॑श्चन्द्र स॒र्पिषो॒ दर्वी॑ श्रीणीष आ॒सनि॑। उ॒तो न॒ उत्पु॑पूर्या उ॒क्थेषु॑ शवसस्पत॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥९॥
उ॒भे । सु॒ऽच॒न्द्र॒ । स॒र्पिषः॑ । दर्वी॒ इति॑ । श्री॒णी॒षे॒ । आ॒सनि॑ । उ॒तो इति॑ । नः॒ । उत् । पु॒पू॒र्याः॒ । उ॒क्थ्येषु॑ । श॒व॒सः॒ । प॒ते॒ । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥
Mantra 10
ए॒वाँ अ॒ग्निम॑जुर्यमुर्गी॒र्भिर्य॒ज्ञेभि॑रानु॒षक्। दध॑द॒स्मे सु॒वीर्य॑मु॒त त्यदा॒श्वश्व्य॒मिषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥१०॥
ए॒व । अ॒ग्निम् । अ॒जु॒र्य॒मुः॒ । गीः॒ऽभिः । य॒ज्ञेभिः॑ । आ॒नु॒षक् । दध॑त् । अ॒स्मे इति॑ । सु॒ऽवीर्य॑म् । उ॒त । त्यत् । आ॒शु॒ऽअश्व्य॑म् । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥