Mantra 1
तमु॑ नू॒नं तवि॑षीमन्तमेषां स्तु॒षे ग॒णं मारु॑तं॒ नव्य॑सीनाम्। य आ॒श्व॑श्वा॒ अम॑व॒द्वह॑न्त उ॒तेशि॑रे अ॒मृत॑स्य स्व॒राजः॑ ॥१॥
तम् । ऊँ॒ इति॑ । नू॒नम् । तवि॑षीऽमन्तम् । ए॒षा॒म् । स्तु॒षे । ग॒णम् । मारु॑तम् । नव्य॑सीनाम् । ये । आ॒शुऽअ॑श्वाः । अम॑ऽवत् । वह॑न्ते । उ॒त । ई॒शि॒रे॒ । अ॒मृत॑स्य । स्व॒ऽराजः॑ ॥
Mantra 2
त्वे॒षं ग॒णं त॒वसं॒ खादि॑हस्तं॒ धुनि॑व्रतं मा॒यिनं॒ दाति॑वारम्। म॒यो॒भुवो॒ ये अमि॑ता महि॒त्वा वन्द॑स्व विप्र तुवि॒राध॑सो॒ नॄन् ॥२॥
त्वे॒षम् । ग॒णम् । त॒वस॑म् । खादि॑ऽहस्तम् । धुनि॑ऽव्रतम् । मा॒यिन॑म् । दाति॑ऽवारम् । म॒यः॒ऽभुवः॑ । ये । अमि॑ताः । म॒हि॒ऽत्वा । वन्द॑स्व । वि॒प्र॒ । तु॒वि॒ऽराध॑सः । नॄन् ॥
Mantra 3
आ वो॑ यन्तूदवा॒हासो॑ अ॒द्य वृ॒ष्टिं ये विश्वे॑ म॒रुतो॑ जु॒नन्ति॑। अ॒यं यो अ॒ग्निर्म॑रुतः॒ समि॑द्ध ए॒तं जु॑षध्वं कवयो युवानः ॥३॥
आ । वः॒ । य॒न्तु॒ । उद॒ऽवा॒हासः॑ । अ॒द्य । वृ॒ष्टिम् । ये । विश्वे॑ । म॒रुतः॑ । जु॒नन्ति॑ । अ॒यम् । यः । अ॒ग्निः । म॒रु॒तः॒ । सम्ऽइ॑द्धः । ए॒तम् । जु॒ष॒ध्व॒म् । क॒व॒यः॒ । यु॒वा॒नः॒ ॥
Mantra 4
यू॒यं राजा॑न॒मिर्यं॒ जना॑य विभ्वत॒ष्टं ज॑नयथा यजत्राः। यु॒ष्मदे॑ति मुष्टि॒हा बा॒हुजू॑तो यु॒ष्मत्सद॑श्वो मरुतः सु॒वीरः॑ ॥४॥
यू॒यम् । राजा॑नम् । इर्य॑म् । जना॑य । वि॒भ्व॒ऽत॒ष्टम् । ज॒न॒य॒थ॒ । य॒ज॒त्राः॒ । यु॒ष्मत् । ए॒ति॒ । मु॒ष्टि॒ऽहा । बा॒हुऽजू॑तः । यु॒ष्मत् । सत्ऽअ॑श्वः । म॒रु॒तः॒ । सु॒ऽवीरः॑ ॥
Mantra 5
अ॒राइ॒वेदच॑रमा॒ अहे॑व॒ प्रप्र॑ जायन्ते॒ अक॑वा॒ महो॑भिः। पृश्नेः॑ पु॒त्रा उ॑प॒मासो॒ रभि॑ष्ठाः॒ स्वया॑ म॒त्या म॒रुतः॒ सं मि॑मिक्षुः ॥५॥
अ॒राःऽइ॑व । इत् । अच॑रमाः । अहा॑ऽइव । प्रऽप्र॑ । जा॒य॒न्ते॒ । अक॑वाः । महः॑ऽभिः । पृश्नेः॑ । पु॒त्राः । उ॒प॒ऽमासः॑ । रभि॑ष्ठाः । स्वया॑ । म॒त्या । म॒रुतः॑ । सम् । मि॒मि॒क्षुः॒ ॥
Mantra 6
यत्प्राया॑सिष्ट॒ पृष॑तीभि॒रश्वै॑र्वीळुप॒विभि॑र्मरुतो॒ रथे॑भिः। क्षोद॑न्त॒ आपो॑ रिण॒ते वना॒न्यवो॒स्रियो॑ वृष॒भः क्र॑न्दतु॒ द्यौः ॥६॥
यत् । प्र । अया॑सिष्ट । पृष॑तीभिः । अश्वैः॑ । वी॒ळु॒प॒विऽभिः॑ । म॒रु॒तः॒ । रथे॑भिः । क्षोद॑न्ते । आपः॑ । रि॒ण॒ते । वना॑नि । अव॑ । उ॒स्रियः॑ । वृ॒ष॒भः । क्र॒न्द॒तु॒ । द्यौः ॥
Mantra 7
प्रथि॑ष्ट॒ याम॑न्पृथि॒वी चि॑देषां॒ भर्ते॑व॒ गर्भं॒ स्वमिच्छवो॑ धुः। वाता॒न्ह्यश्वा॑न्धु॒र्या॑युयु॒ज्रे व॒र्षँ स्वेदं॑ चक्रिरे रु॒द्रिया॑सः ॥७॥
प्रथि॑ष्ट । याम॑न् । पृ॒थि॒वी । चि॒त् । ए॒षा॒म् । भर्ता॑ऽइव । गर्भ॑म् । स्वम् । इत् । शवः॑ । धुः । वाता॑न् । हि । अश्वा॑न् । धु॒रि । आ॒ऽयु॒यु॒ज्रे । व॒र्षम् । स्वेद॑म् । च॒क्रि॒रे॒ । रु॒द्रिया॑सः ॥
Mantra 8
ह॒ये नरो॒ मरु॑तो मृ॒ळता॑ न॒स्तुवी॑मघासो॒ अमृ॑ता॒ ऋत॑ज्ञाः। सत्य॑श्रुतः॒ कव॑यो॒ युवा॑नो॒ बृह॑द्गिरयो बृ॒हदु॒क्षमा॑णाः ॥८॥
ह॒ये । नरः॑ । मरु॑तः । मृ॒ळत॑ । नः॒ । तुवि॑ऽमघासः । अमृ॑ताः । ऋत॑ऽज्ञाः । सत्य॑ऽश्रुतः । कव॑यः । युवा॑नः । बृह॑त्ऽगिरयः । बृ॒हत् । उ॒क्षमा॑णाः ॥