Mantra 1
आ रु॑द्रास॒ इन्द्र॑वन्तः स॒जोष॑सो॒ हिर॑ण्यरथाः सुवि॒ताय॑ गन्तन। इ॒यं वो॑ अ॒स्मत्प्रति॑ हर्यते म॒तिस्तृ॒ष्णजे॒ न दि॒व उत्सा॑ उद॒न्यवे॑ ॥१॥
आ । रु॒द्रा॒सः॒ । इन्द्र॑ऽवन्तः । स॒ऽजोष॑सः । हिर॑ण्यऽरथाः । सु॒वि॒ताय॑ । ग॒न्त॒न॒ । इ॒यम् । वः॒ । अ॒स्मत् । प्रति॑ । ह॒र्य॒ते॒ । म॒तिः । तृ॒ष्णऽजे॑ । न । दि॒वः । उत्साः॑ । उ॒द॒न्यवे॑ ॥
Mantra 2
वाशी॑मन्त ऋष्टि॒मन्तो॑ मनी॒षिणः॑ सु॒धन्वा॑न॒ इषु॑मन्तो निष॒ङ्गिणः॑। स्वश्वाः॑ स्थ सु॒रथाः॑ पृश्निमातरः स्वायु॒धा म॑रुतो याथना॒ शुभ॑म् ॥२॥
वाशी॑ऽमन्तः । ऋ॒ष्टि॒ऽमन्तः॑ । म॒नी॒षिणः॑ । सु॒ऽधन्वा॑नः । इषु॑ऽमन्तः । नि॒ष॒ङ्गिणः॑ । सु॒ऽअश्वाः॑ । स्थ॒ । सु॒ऽरथाः॑ । पृ॒श्नि॒ऽमा॒त॒रः॒ । सु॒ऽआ॒यु॒धाः । म॒रु॒तः॒ । या॒थ॒न॒ । शुभ॑म् ॥
Mantra 3
धू॒नु॒थ द्यां पर्व॑तान्दा॒शुषे॒ वसु॒ नि वो॒ वना॑ जिहते॒ याम॑नो भि॒या। को॒पय॑थ पृथि॒वीं पृ॑श्निमातरः शु॒भे यदु॑ग्राः॒ पृष॑ती॒रयु॑ग्ध्वम् ॥३॥
धू॒नु॒थ । द्याम् । पर्व॑ताम् । दा॒शुषे॑ । वसु॑ । नि । वः॒ । वना॑ । जि॒ह॒ते॒ । याम॑नः । भि॒या । को॒पय॑थ । पृ॒थि॒वीम् । पृ॒श्नि॒ऽमा॒त॒रः॒ । शु॒भे । यत् । उ॒ग्राः॒ । पृष॑तीः । अयु॑ग्ध्वम् ॥
Mantra 4
वात॑त्विषो म॒रुतो॑ व॒र्षनि॑र्णिजो य॒माइ॑व॒ सुस॑दृशः सु॒पेश॑सः। पि॒शङ्गा॑श्वा अरु॒णाश्वा॑ अरे॒पसः॒ प्रत्व॑क्षसो महि॒ना द्यौरि॑वो॒रवः॑ ॥४॥
वात॑ऽत्विषः । म॒रुतः॑ । व॒र्षऽनि॑र्निजः । य॒माःऽइ॑व । सुऽस॑दृशः । सु॒ऽपेश॑सः । पि॒शङ्ग॑ऽअश्वाः । अ॒रु॒णऽअ॑स्वाः । अ॒रे॒पसः॑ । प्रऽत्व॑क्षसः । म॒हि॒ना । द्यौःऽइ॑व । उ॒रवः॑ ॥
Mantra 5
पु॒रु॒द्र॒प्सा अ॑ञ्जि॒मन्तः॑ सु॒दान॑वस्त्वे॒षसं॑दृशो अनव॒भ्ररा॑धसः। सु॒जा॒तासो॑ ज॒नुषा॑ रु॒क्मव॑क्षसो दि॒वो अ॒र्का अ॒मृतं॒ नाम॑ भेजिरे ॥५॥
पु॒रु॒ऽद्र॒प्साः । अ॒ञ्जि॒ऽमन्तः॑ । सु॒ऽदान॑वः । त्वे॒षऽस॑न्दृशः । अ॒न॒व॒भ्रऽरा॑धसः । सु॒जा॒तासः॑ । ज॒नुषा॑ । रु॒क्मऽव॑क्षसः । दि॒वः । अ॒र्काः । अ॒मृत॑म् । नाम॑ । भे॒जि॒रे॒ ॥
Mantra 6
ऋ॒ष्टयो॑ वो मरुतो॒ अंस॑यो॒रधि॒ सह॒ ओजो॑ बा॒ह्वोर्वो॒ बलं॑ हि॒तम्। नृ॒म्णा शी॒र्षस्वायु॑धा॒ रथे॑षु वो॒ विश्वा॑ वः॒ श्रीरधि॑ त॒नूषु॑ पिपिशे ॥६॥
ऋ॒ष्टयः॑ । वः॒ । म॒रु॒तः॒ । अंस॑योः । अधि॑ । सहः॑ । ओजः॑ । बा॒ह्वोः । वः॒ । बल॑म् । हि॒तम् । नृ॒म्णा । शी॒र्षऽसु॑ । आयु॑धा । रथे॑षु । वः॒ । विश्वा॑ । वः॒ । श्रीः । अधि॑ । त॒नूषु॑ । पि॒पि॒शे॒ ॥
Mantra 7
गोम॒दश्वा॑व॒द्रथ॑वत्सु॒वीरं॑ च॒न्द्रव॒द्राधो॑ मरुतो ददा नः। प्रश॑स्तिं नः कुणुत रुद्रियासो भक्षी॒य वोऽव॑सो॒ दैव्य॑स्य ॥७॥
गोऽम॑त् । अश्व॑ऽवत् । रथ॑ऽवत् । सु॒ऽवीर॑म् । च॒न्द्रऽव॑त् । राधः॑ । म॒रु॒तः॒ । द॒द॒ । नः॒ । प्रऽश॑स्तिम् । नः॒ । कृ॒णु॒त॒ । रु॒द्रि॒या॒सः॒ । भ॒क्षी॒य । वः॒ । अव॑सः । दैव्य॑स्य ॥
Mantra 8
ह॒ये नरो॒ मरु॑तो मृ॒ळता॑ न॒स्तुवी॑मघासो॒ अमृ॑ता॒ ऋत॑ज्ञाः। सत्य॑श्रुतः॒ कव॑यो॒ युवा॑नो॒ बृह॑द्गिरयो बृ॒हदु॒क्षमा॑णाः ॥८॥
ह॒ये । नरः॑ । मरु॑तः । मृ॒ळत॑ । नः॒ । तुवि॑ऽमघासः । अमृ॑ताः । ऋत॑ऽज्ञाः । सत्य॑ऽश्रुतः । कव॑यः । युवा॑नः । बृह॑त्ऽगिरयः । बृ॒हत् । उ॒क्षमा॑णाः ॥