Mantra with Swara
ता अ॑त्नत व॒युनं॑ वी॒रव॑क्षणं समा॒न्या वृ॒तया॒ विश्व॒मा रजः॑। अपो॒ अपा॑ची॒रप॑रा॒ अपे॑जते॒ प्र पूर्वा॑भिस्तिरते देव॒युर्जनः॑ ॥२॥
ताः । अ॒त्न॒त॒ । व॒युन॑म् । वी॒रऽव॑क्षणम् । स॒मा॒न्या । वृ॒तया॑ । विश्व॑म् । आ । रजः॑ । अपो॒ इति॑ । अपा॑चीः । अप॑राः । अप॑ । ई॒ज॒ते॒ । प्र । पूर्वा॑भिः । ति॒र॒ते॒ । दे॒व॒ऽयुः । जनः॑ ॥
Mantra without Swara
ता अत्नत वयुनं वीरवक्षणं समान्या वृतया विश्वमा रजः। अपो अपाचीरपरा अपेजते प्र पूर्वाभिस्तिरते देवयुर्जनः ॥
ताः। अत्नत। वयुनम्। वीरऽवक्षणम्। समान्या। वृतया। विश्वम्। आ। रजः। अपो इति। अपाचीः। अपराः। अप। ईजते। प्र। पूर्वाभिः। तिरते। देवऽयुः। जनः ॥२॥
Ashtak » 4
Adhyay » 3
Varga » 2
Mantra » 2
