Mantra with Swara
वि त॑न्वते॒ धियो॑ अस्मा॒ अपां॑सि॒ वस्त्रा॑ पु॒त्राय॑ मा॒तरो॑ वयन्ति। उ॒प॒प्र॒क्षे वृष॑णो॒ मोद॑माना दि॒वस्प॒था व॒ध्वो॑ य॒न्त्यच्छ॑ ॥६॥
वि । त॒न्व॒ते॒ । धियः॑ । अ॒स्मै॒ । अपां॑सि । वस्त्रा॑ । पु॒त्राय॑ । मा॒तरः॑ । व॒य॒न्ति॒ । उ॒प॒ऽप्र॒क्षे । वृष॑णः । मोद॑मानाः । दि॒वः । प॒था । व॒ध्वः॑ । य॒न्ति॒ । अच्छ॑ ॥
Mantra without Swara
वि तन्वते धियो अस्मा अपांसि वस्त्रा पुत्राय मातरो वयन्ति। उपप्रक्षे वृषणो मोदमाना दिवस्पथा वध्वो यन्त्यच्छ ॥
वि। तन्वते। धियः। अस्मै। अपांसि। वस्त्रा। पुत्राय। मातरः। वयन्ति। उपऽप्रक्षे। वृषणः। मोदमानाः। दिवः। पथा। वध्वः। यन्ति। अच्छ ॥६॥
Ashtak » 4
Adhyay » 3
Varga » 1
Mantra » 6
