Mantra with Swara
अ॒जि॒रास॒स्तद॑प॒ ईय॑माना आतस्थि॒वांसो॑ अ॒मृत॑स्य॒ नाभि॑म्। अ॒न॒न्तास॑ उ॒रवो॑ वि॒श्वतः॑ सीं॒ परि॒ द्यावा॑पृथि॒वी य॑न्ति॒ पन्थाः॑ ॥२॥
अ॒जि॒रासः॑ । तत्ऽअ॑पः । ईय॑मानाः । आ॒त॒स्थि॒ऽवांसः॑ । अ॒मृत॑स्य । नाभि॑म् । अ॒न॒न्तासः॑ । उ॒रवः॑ । वि॒श्वतः॑ । सी॒म् । परि॑ । द्यावा॑पृथि॒वी इति॑ । य॒न्ति॒ । पन्थाः॑ ॥
Mantra without Swara
अजिरासस्तदप ईयमाना आतस्थिवांसो अमृतस्य नाभिम्। अनन्तास उरवो विश्वतः सीं परि द्यावापृथिवी यन्ति पन्थाः ॥
अजिरासः। तत्ऽअपः। ईयमानाः आतस्थिऽवांसः। अमृतस्य। नाभिम्। अनन्तासः। उरवः। विश्वतः। सीम्। परि। द्यावापृथिवी इति। यन्ति। पन्थाः ॥२॥
Ashtak » 4
Adhyay » 3
Varga » 1
Mantra » 2
