Mantra 1
तं प्र॒त्नथा॑ पू॒र्वथा॑ वि॒श्वथे॒मथा॑ ज्ये॒ष्ठता॑तिं बर्हि॒षदं॑ स्व॒र्विद॑म्। प्र॒ती॒ची॒नं वृ॒जनं॑ दोहसे गि॒राशुं जय॑न्त॒मनु॒ यासु॒ वर्ध॑से ॥१॥
तम् । प्र॒त्नऽथा॑ । पू॒र्वऽथा॑ । वि॒श्वऽथा॑ । इ॒म्ऽअथा॑ । ज्ये॒ष्ठऽता॑तिम् । ब॒र्हि॒ऽसद॑म् । स्वः॒ऽविद॑म् । प्र॒ती॒ची॒नम् । वृ॒जन॑म् । दो॒ह॒से॒ । गि॒रा । आ॒शुम् । जय॑न्तम् । अनु॑ । यासु॑ । वर्ध॑से ॥
Mantra 2
श्रि॒ये सु॒दृशी॒रुप॑रस्य॒ याः स्व॑र्वि॒रोच॑मानः क॒कुभा॑मचो॒दते॑। सु॒गो॒पा अ॑सि॒ न दभा॑य सुक्रतो प॒रो मा॒याभि॑र्ऋ॒त आ॑स॒ नाम॑ ते ॥२॥
श्रि॒ये । सु॒ऽदृशीः॑ । उप॑रस्य । याः । स्वः॑ । वि॒ऽरोच॑मानः । क॒कुभा॑म् । अ॒चो॒दते॑ । सु॒ऽगो॒पाः । अ॒सि॒ । न । दभा॑य । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । प॒रः । मा॒याभिः॑ । ऋ॒ते । आ॒स॒ । नाम॑ । ते॒ ॥
Mantra 3
अत्यं॑ ह॒विः स॑चते॒ सच्च॒ धातु॒ चारि॑ष्टगातुः॒ स होता॑ सहो॒भरिः॑। प्र॒सर्स्रा॑णो॒ अनु॑ ब॒र्हिर्वृषा॒ शिशु॒र्मध्ये॒ युवा॒जरो॑ वि॒स्रुहा॑ हि॒तः ॥३॥
अत्य॑म् । ह॒विः । स॒च॒ते॒ । सत् । च॒ । धातु॑ । च॒ । अरि॑ष्टऽगातुः । सः । होता॑ । स॒हः॒ऽभरिः॑ । प्र॒ऽसर्स्रा॑णः । अनु॑ । ब॒र्हिः । वृषा॑ । शिशुः॑ । मध्ये॑ । युवा॑ । अ॒जरः॑ । वि॒ऽस्रुहा॑ । हि॒तः ॥
Mantra 4
प्र व॑ ए॒ते सु॒युजो॒ याम॑न्नि॒ष्टये॒ नीची॑र॒मुष्मै॑ य॒म्य॑ ऋता॒वृधः॑। सु॒यन्तु॑भिः सर्वशा॒सैर॒भीशु॑भिः॒ क्रिवि॒र्नामा॑नि प्रव॒णे मु॑षायति ॥४॥
प्र । वः॒ । ए॒ते । सु॒ऽयुजः॑ । याम॑न् । इ॒ष्टये॑ । नीचीः॑ । अ॒मुष्मै॑ । य॒म्यः॑ । ऋ॒त॒ऽवृधः॑ । सु॒यन्तु॑ऽभिः । स॒र्व॒ऽशा॒सैः । अ॒भीशु॑ऽभिः । क्रिविः॑ । नामा॑नि । प्र॒व॒णे । मु॒षा॒य॒ति॒ ॥
Mantra 5
सं॒जर्भु॑राण॒स्तरु॑भिः सुते॒गृभं॑ वया॒किनं॑ चि॒त्तग॑र्भासु सु॒स्वरुः॑। धा॒र॒वा॒केष्वृ॑जुगाथ शोभसे॒ वर्ध॑स्व॒ पत्नी॑र॒भि जी॒वो अ॑ध्व॒रे ॥५॥
स॒म्ऽजर्भु॑राणः । तरु॑ऽभिः । सु॒ते॒ऽगृभ॑म् । व॒या॒किन॑म् । चि॒त्तऽग॑र्भासु । सु॒ऽस्वरुः॑ । धा॒र॒ऽवा॒केषु॑ । ऋ॒जु॒ऽगा॒थ॒ । शो॒भ॒से॒ । वर्ध॑स्व । पत्नीः॑ । अ॒भि । जी॒वः । अ॒ध्व॒रे ॥
Mantra 6
या॒दृगे॒व ददृ॑शे ता॒दृगु॑च्यते॒ सं छा॒यया॑ दधिरे सि॒ध्रया॒प्स्वा। म॒हीम॒स्मभ्य॑मुरु॒षामु॒रु ज्रयो॑ बृ॒हत्सु॒वीर॒मन॑पच्युतं॒ सहः॑ ॥६॥
या॒दृक् । ए॒व । ददृ॑शे । ता॒दृक् । उ॒च्य॒ते॒ । सम् । छा॒यया॑ । द॒धि॒रे॒ । सि॒ध्रया॑ । अ॒प्ऽसु । आ । म॒हीम् । अ॒स्मभ्य॑म् । उ॒रु॒ऽसाम् । उ॒रु । ज्रयः॑ । बृ॒हत् । सु॒ऽवीर॑म् । अन॑पऽच्युतम् । सहः॑ ॥
Mantra 7
वेत्यग्रु॒र्जनि॑वा॒न्वा अति॒ स्पृधः॑ समर्य॒ता मन॑सा॒ सूर्यः॑ क॒विः। घ्रं॒सं रक्ष॑न्तं॒ परि॑ वि॒श्वतो॒ गय॑म॒स्माकं॒ शर्म॑ वनव॒त्स्वाव॑सुः ॥७॥
वेति॑ । अग्रुः॑ । जनि॑ऽवान् । वै । अति॑ । स्पृधः॑ । स॒ऽम॒र्य॒ता । मन॑सा । सूर्यः॑ । क॒विः । घ्रं॒सम् । रक्ष॑न्तम् । परि॑ । वि॒श्वतः॑ । गय॑म् । अ॒स्माक॑म् । शर्म॑ । व॒न॒व॒त् । स्वऽव॑सुः ॥
Mantra 8
ज्यायां॑सम॒स्य य॒तुन॑स्य के॒तुन॑ ऋषिस्व॒रं च॑रति॒ यासु॒ नाम॑ ते। या॒दृश्मि॒न्धायि॒ तम॑प॒स्यया॑ विद॒द्य उ॑ स्व॒यं वह॑ते॒ सो अरं॑ करत् ॥
ज्यायां॑सम् । अ॒स्य । य॒तुन॑स्य । के॒तुना॑ । ऋ॒षि॒ऽस्व॒रम् । च॒र॒ति॒ । यासु॑ । नाम॑ । ते॒ । या॒दृश्मि॑न् । धा॒यि॒ । तम् । अ॒प॒स्यया॑ । वि॒द॒त् । यः । ऊँ॒ इति॑ । स्व॒यम् । वह॑ते । सः । अर॑म् । क॒र॒त् ॥
Mantra 9
स॒मु॒द्रमा॑सा॒मव॑ तस्थे अग्रि॒मा न रि॑ष्यति॒ सव॑नं॒ यस्मि॒न्नाय॑ता। अत्रा॒ न हार्दि॑ क्रव॒णस्य॑ रेजते॒ यत्रा॑ म॒तिर्वि॒द्यते॑ पूत॒बन्ध॑नी ॥९॥
स॒मु॒द्रम् । आ॒सा॒म् । अव॑ । त॒स्थे॒ । अ॒ग्रि॒मा । न । रि॒ष्य॒ति॒ । सव॑नम् । यस्मि॑न् । आऽय॑ता । अत्र॑ । न । हार्दि॑ । क्र॒व॒णस्य॑ । रे॒ज॒ते॒ । यत्र॑ । म॒तिः । वि॒द्यते॑ । पू॒त॒ऽबन्ध॑नी ॥
Mantra 10
सहि क्ष॒त्रस्य॑ मन॒सस्य॒ चित्ति॑भिरेवाव॒दस्य॑ यज॒तस्य॒ सध्रेः॑। अ॒व॒त्सा॒रस्य॑ स्पृणवाम॒ रण्व॑भिः॒ शवि॑ष्ठं॒ वाजं॑ वि॒दुषा॑ चि॒दर्ध्य॑म् ॥१०॥
सः । हि । क्ष॒त्रस्य॑ । म॒न॒सस्य॑ । चित्ति॑ऽभिः । ए॒व॒ऽव॒दस्य॑ । य॒ज॒तस्य॑ । सध्रेः॑ । अ॒व॒ऽत्सा॒रस्य॑ । स्पृ॒ण॒वा॒म॒ । रण्व॑ऽभिः । शवि॑ष्ठम् । वाज॑म् । वि॒दुषा॑ । चि॒त् । अर्ध्य॑म् ॥
Mantra 11
श्ये॒न आ॑सा॒मदि॑तिः क॒क्ष्यो॒३॒॑ मदो॑ वि॒श्ववा॑रस्य यज॒तस्य॑ मा॒यिनः॑। सम॒न्यम॑न्यमर्थय॒न्त्येत॑वे वि॒दुर्वि॒षाणं॑ परि॒पान॒मन्ति॒ ते ॥११॥
श्ये॒नः । आ॒सा॒म् । अदि॑तिः । क॒क्ष्यः॑ । मदः॑ । वि॒श्वऽवा॑रस्य । य॒ज॒तस्य॑ । मा॒यिनः॑ । सम् । अ॒न्यम्ऽअ॑न्यम् । अ॒र्थ॒य॒न्ति॒ । एत॑वे । वि॒दुः । वि॒ऽसाण॑म् । प॒रि॒ऽपान॑म् । अन्ति॑ । ते॒ ॥
Mantra 12
स॒दा॒पृ॒णो य॑ज॒तो वि द्विषो॑ वधीद्बाहुवृ॒क्तः श्रु॑त॒वित्तर्यो॑ वः॒ सचा॑। उ॒भा स वरा॒ प्रत्ये॑ति॒ भाति॑ च॒ यदीं॑ ग॒णं भज॑ते सुप्र॒याव॑भिः ॥१२॥
स॒दा॒ऽपृ॒णः । य॒ज॒तः । वि । द्विषः॑ । व॒धी॒त् । बा॒हु॒ऽवृ॒क्तः । श्रु॒त॒ऽवित् । तर्यः॑ । वः॒ । सचा॑ । उ॒भा । सः । वरा॑ । प्रति॑ । ए॒ति॒ । भाति॑ । च॒ । यत् । ई॒म् । ग॒णम् । भज॑ते । सु॒प्र॒याव॑ऽभिः ॥
Mantra 13
सु॒तं॒भ॒रो यज॑मानस्य॒ सत्प॑ति॒र्विश्वा॑सा॒मूधः॒ स धि॒यामु॒दञ्च॑नः। भर॑द्धे॒नू रस॑विच्छिश्रिये॒ पयो॑ऽनुब्रुवा॒णो अध्ये॑ति॒ न स्व॒पन् ॥१३॥
सु॒त॒म्ऽभ॒रः । यज॑मानस्य । सत्ऽप॑तिः । विश्वा॑साम् । ऊधः॑ । सः । धि॒याम् । उ॒त्ऽअञ्च॑नः । भर॑त् । धे॒नुः । रस॑ऽवत् । शि॒श्रि॒ये॒ । पयः॑ । अ॒नु॒ऽब्रु॒वा॒णः । अधि॑ । ए॒ति॒ । न । स्व॒पन् ॥
Mantra 14
यो जा॒गार॒ तमृचः॑ कामयन्ते॒ यो जा॒गार॒ तमु॒ सामा॑नि यन्ति। यो जा॒गार॒ तम॒यं सोम॑ आह॒ तवा॒हम॑स्मि स॒ख्ये न्यो॑काः ॥१४॥
यः । जा॒गार॑ । तम् । ऋचः॑ । का॒म॒य॒न्ते॒ । यः । जा॒गार॑ । तम् । ऊँ॒ इति॑ । सामा॑नि । य॒न्ति॒ । यः । जा॒गार॑ । तम् । अ॒यम् । सोमः॑ । आ॒ह॒ । तव॑ । अ॒हम् । अ॒स्मि॒ । स॒ख्ये । निऽओ॑काः ॥
Mantra 15
अ॒ग्निर्जा॑गार॒ तमृचः॑ कामयन्ते॒ऽग्निर्जा॑गार॒ तमु॒ सामा॑नि यन्ति। अ॒ग्निर्जा॑गार॒ तम॒यं सोम॑ आह॒ तवा॒हम॑स्मि स॒ख्ये न्यो॑काः ॥१५॥
अ॒ग्निः । जा॒गा॒र॒ । तम् । ऋचः॑ । का॒म॒य॒न्ते॒ । अ॒ग्निः । जा॒गा॒र॒ । तम् । ऊँ॒ इति॑ । सामा॑नि । य॒न्ति॒ । अ॒ग्निः । जा॒गा॒र॒ । तम् । अ॒यम् । सोमः॑ । आ॒ह॒ । तव॑ । अ॒हम् । अ॒स्मि॒ । स॒ख्ये । निऽओ॑काः ॥