Mantra 1
आ धे॒नवः॒ पय॑सा॒ तूर्ण्य॑र्था॒ अम॑र्धन्ती॒रुप॑ नो यन्तु॒ मध्वा॑। म॒हो रा॒ये बृ॑ह॒तीः स॒प्त विप्रो॑ मयो॒भुवो॑ जरि॒ता जो॑हवीति ॥१॥
आ । धे॒नवः॑ । पय॑सा । तूर्णि॑ऽअर्थाः । अम॑र्धन्तीः । उप॑ । नः॒ । य॒न्तु॒ । मध्वा॑ । म॒हः । रा॒ये । बृ॒ह॒तीः । स॒प्त । विप्रः॑ । म॒यः॒ऽभुवः॑ । ज॒रि॒ता । जो॒ह॒वी॒ति॒ ॥
Mantra 2
आ सु॑ष्टु॒ती नम॑सा वर्त॒यध्यै॒ द्यावा॒ वाजा॑य पृथि॒वी अमृ॑ध्रे। पि॒ता मा॒ता मधु॑वचाः सु॒हस्ता॒ भरे॑भरे नो य॒शसा॑वविष्टाम् ॥२॥
आ । सु॒ऽस्तु॒ती । नम॑सा । व॒र्त॒यध्यै॑ । द्यावा॑ । वाजा॑य । पृ॒थि॒वी इति॑ । अमृ॑ध्रे॒ इति॑ । पि॒ता । मा॒ता । मधु॑ऽवचाः । सु॒ऽहस्ता॑ । भरे॑ऽभरे । नः॒ । य॒शसौ॑ । अ॒वि॒ष्टा॒म् ॥
Mantra 3
अध्व॑र्यवश्चकृ॒वांसो॒ मधू॑नि॒ प्र वा॒यवे॑ भरत॒ चारु॑ शु॒क्रम्। होते॑व नः प्रथ॒मः पा॑ह्य॒स्य देव॒ मध्वो॑ ररि॒मा ते॒ मदा॑य ॥३॥
अध्व॑र्यवः । च॒कृ॒ऽवांसः॑ । मधू॑नि । प्र । वा॒यवे॑ । भ॒र॒त॒ । चारु॑ । शु॒क्रम् । होता॑ऽइव । नः॒ । प्र॒थ॒मः । पा॒हि॒ । अ॒स्य । देव॑ । मध्वः॑ । र॒रि॒म । ते॒ । मदा॑य ॥
Mantra 4
दश॒ क्षिपो॑ युञ्जते बा॒हू अद्रिं॒ सोम॑स्य॒ या श॑मि॒तारा॑ सु॒हस्ता॑। मध्वो॒ रसं॑ सु॒गभ॑स्तिर्गिरि॒ष्ठां चनि॑श्चदद्दुदुहे शु॒क्रमं॒शुः ॥४॥
दश॑ । क्षिपः॑ । यु॒ञ्ज॒ते॒ । बा॒हू इति॑ । अद्रि॑म् । सोम॑स्य । या । श॒मि॒तारा॑ । सु॒ऽहस्ता॑ । मध्वः॑ । रस॑म् । सु॒ऽगभ॑स्तिः । गि॒रि॒ऽस्थाम् । चनि॑श्चदत् । दु॒दु॒हे॒ । शु॒क्रम् । अं॒शुः ॥
Mantra 5
असा॑वि ते जुजुषा॒णाय॒ सोमः॒ क्रत्वे॒ दक्षा॑य बृह॒ते मदा॑य। हरी॒ रथे॑ सु॒धुरा॒ योगे॑ अ॒र्वागिन्द्र॑ प्रि॒या कृ॑णुहि हू॒यमा॑नः ॥५॥
असा॑वि । ते॒ । जु॒जु॒षा॒णाय॑ । सोमः॑ । क्रत्वे॑ । दक्षा॑य । बृ॒ह॒ते । मदा॑य । हरी॒ इति॑ । रथे॑ । सु॒ऽधुरा॑ । योगे॑ । अ॒र्वाक् । इन्द्र॑ । प्रि॒या । कृ॒णु॒हि॒ । हू॒यमा॑नः ॥
Mantra 6
आ नो॑ म॒हीम॒रम॑तिं स॒जोषा॒ ग्नां दे॒वीं नम॑सा रा॒तह॑व्याम्। मधो॒र्मदा॑य बृह॒तीमृ॑त॒ज्ञामाग्ने॑ वह प॒थिभि॑र्देव॒यानैः॑ ॥६॥
आ । नः॒ । म॒हीम् । अ॒रम॑तिम् । स॒ऽजोषाः॑ । ग्नाम् । दे॒वीम् । नम॑सा । रा॒तऽह॑व्याम् । मधोः॑ । मदा॑य । बृ॒ह॒तीम् । ऋ॒त॒ऽज्ञाम् । आ । अ॒ग्ने॒ । व॒ह॒ । प॒थिऽभिः॑ । दे॒व॒ऽयानैः॑ ॥
Mantra 7
अ॒ञ्जन्ति॒ यं प्र॒थय॑न्तो॒ न विप्रा॑ व॒पाव॑न्तं॒ नाग्निना॒ तप॑न्तः। पि॒तुर्न पु॒त्र उ॒पसि॒ प्रेष्ठ॒ आ घ॒र्मो अ॒ग्निमृ॒तय॑न्नसादि ॥७॥
अ॒ञ्जन्ति॑ । यम् । प्र॒थय॑न्तः । न । विप्राः॑ । व॒पाऽव॑न्तम् । न । अ॒ग्निना॑ । तप॑न्तः । पि॒तुः । न । पु॒त्रः । उ॒पसि॑ । प्रेष्ठः॑ । आ । घ॒र्मः । अ॒ग्निम् । ऋ॒तय॑न् । अ॒सा॒दि॒ ॥
Mantra 8
अच्छा॑ म॒ही बृ॑ह॒ती शंत॑मा॒ गीर्दू॒तो न ग॑न्त्व॒श्विना॑ हु॒वध्यै॑। म॒यो॒भुवा॑ स॒रथा या॑तम॒र्वाग्ग॒न्तं नि॒धिं धुर॑मा॒णिर्न नाभि॑म् ॥८॥
अच्छ॑ । म॒ही । बृ॒ह॒ती । शम्ऽत॑मा । गीः । दू॒तः । न । ग॒न्तु॒ । अ॒श्विना॑ । हु॒वध्यै॑ । म॒यः॒ऽभुवा॑ । स॒रथा॑ । आ । या॒त॒म् । अ॒र्वाक् । ग॒न्तम् । नि॒ऽधिम् । धुर॑म् । आ॒णिः । न । नाभि॑म् ॥
Mantra 9
प्र तव्य॑सो॒ नम॑उक्तिं तु॒रस्या॒हं पू॒ष्ण उ॒त वा॒योर॑दिक्षि। या राध॑सा चोदि॒तारा॑ मती॒नां या वाज॑स्य द्रविणो॒दा उ॒त त्मन् ॥९॥
प्र । तव्य॑सः । नमः॑ऽउक्तिम् । तु॒रस्य॑ । अ॒हम् । पू॒ष्णः । उ॒त । वा॒योः । अ॒दि॒क्षि॒ । या । राध॑सा । चो॒दि॒तारा॑ । म॒ती॒नाम् । या । वाज॑स्य । द्र॒वि॒णः॒ऽदौ । उ॒त । त्मन् ॥
Mantra 10
आ नाम॑भिर्म॒रुतो॑ वक्षि॒ विश्वा॒ना रू॒पेभि॑र्जातवेदो हुवा॒नः। य॒ज्ञं गिरो॑ जरि॒तुः सु॑ष्टु॒तिं च॒ विश्वे॑ गन्त मरुतो॒ विश्व॑ ऊ॒ती ॥१०॥
आ । नाम॑ऽभिः । म॒रुतः॑ । व॒क्षि॒ । विश्वा॑न् । आ । रू॒पेभिः॑ । जा॒त॒ऽवे॒दः॒ । हु॒वा॒नः । य॒ज्ञम् । गिरः॑ । ज॒रि॒तुः । सु॒ऽस्तु॒तिम् । च॒ । विश्वे॑ । ग॒न्त॒ । म॒रु॒तः॒ । विश्वे॑ । ऊ॒ती ॥
Mantra 11
आ नो॑ दि॒वो बृ॑ह॒तः पर्व॑ता॒दा सर॑स्वती यज॒ता ग॑न्तु य॒ज्ञम्। हवं॑ दे॒वी जु॑जुषा॒णा घृ॒ताची॑ श॒ग्मां नो॒ वाच॑मुश॒ती शृ॑णोतु ॥११॥
आ । नः॒ । दि॒वः । बृ॒ह॒तः । पर्व॑तात् । आ । सर॑स्वती । य॒ज॒ता । ग॒न्तु॒ । य॒ज्ञम् । हव॑म् । दे॒वी । जु॒जु॒षा॒णा । घृ॒ताची॑ । श॒ग्माम् । नः॒ । वाच॑म् । उ॒श॒ती । शृ॒णो॒तु॒ ॥
Mantra 12
आ वे॒धसं॒ नील॑पृष्ठं बृ॒हन्तं॒ बृह॒स्पतिं॒ सद॑ने सादयध्वम्। सा॒दद्यो॑निं॒ दम॒ आ दी॑दि॒वांसं॒ हिर॑ण्यवर्णमरु॒षं स॑पेम ॥१२॥
आ । वे॒धस॑म् । नील॑ऽपृष्ठम् । बृ॒हन्त॑म् । बृह॒स्पति॑म् । सद॑ने । सा॒द॒य॒ध्व॒म् । सा॒दत्ऽयो॑निम् । दमे॑ । आ । दी॒दि॒ऽवांसम् । हिर॑ण्यऽवर्णम् । अ॒रु॒षम् । स॒पे॒म॒ ॥
Mantra 13
आ ध॑र्ण॒सिर्बृ॒हद्दि॑वो॒ ररा॑णो॒ विश्वे॑भिर्ग॒न्त्वोम॑भिर्हुवा॒नः। ग्ना वसा॑न॒ ओष॑धी॒रमृ॑ध्रस्त्रि॒धातु॑शृङ्गो वृष॒भो व॑यो॒धाः ॥१३॥
आ । ध॒र्ण॒सिः॒ । बृ॒हत्ऽदि॑वः । ररा॑णः । विश्वे॑भिः । ग॒न्तु॒ । ओम॑ऽभिः । हु॒वा॒नः । ग्नाः । वसा॑नः । ओष॑धीः । अमृ॑ध्रः । त्रि॒धातु॑ऽशृङ्गः । वृ॒ष॒भः । व॒यः॒ऽधाः ॥
Mantra 14
मा॒तुष्प॒दे प॑र॒मे शु॒क्र आ॒योर्वि॑प॒न्यवो॑ रास्पि॒रासो॑ अग्मन्। सु॒शेव्यं॒ नम॑सा रा॒तह॑व्याः॒ शिशुं॑ मृजन्त्या॒यवो॒ न वा॒से ॥१४॥
मा॒तुः । प॒दे । प॒र॒मे । शु॒क्रे । आ॒योः । वि॒प॒न्यवः॑ । रा॒स्पि॒रासः॑ । अ॒ग्म॒न् । सु॒ऽशेव्य॑म् । नम॑सा । रा॒तऽह॑व्याः । शिशु॑म् । मृ॒ज॒न्ति॒ । आ॒यवः॑ । न । वा॒से ॥
Mantra 15
बृ॒हद्वयो॑ बृह॒ते तुभ्य॑मग्ने धिया॒जुरो॑ मिथु॒नासः॑ सचन्त। दे॒वोदे॑वः सु॒हवो॑ भूतु॒ मह्यं॒ मा नो॑ मा॒ता पृ॑थि॒वी दु॑र्म॒तौ धा॑त् ॥१५॥
बृ॒हत् । वयः॑ । बृ॒ह॒ते । तुभ्य॑म् । अ॒ग्ने॒ । धि॒या॒ऽजुरः॑ । मि॒थु॒नासः॑ । स॒च॒न्त॒ । दे॒वःऽदे॑वः । सु॒ऽहवः॑ । भू॒तु॒ । मह्य॑म् । मा । नः॒ । मा॒ता । पृ॒थि॒वी । दुः॒ऽम॒तौ । धा॒त् ॥
Mantra 16
उ॒रौ दे॑वा अनिबा॒धे स्या॑म ॥१६॥
उ॒रौ । दे॒वाः॒ । अ॒नि॒ऽबा॒धे । स्या॒म॒ ॥
Mantra 17
सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा॑ सु॒प्रणी॑ती गमेम। आ नो॑ र॒यिं व॑हत॒मोत वी॒राना विश्वा॑न्यमृता॒ सौभ॑गानि ॥१७॥
सम् । अ॒श्विनोः॑ । अव॑सा । नूत॑नेन । म॒यः॒ऽभुवा॑ । सु॒ऽप्रनी॑ती । ग॒मे॒म॒ । आ । नः॒ । र॒यिम् । व॒ह॒त॒म् । आ । उ॒त । वी॒रान् । आ । विश्वा॑नि । अ॒मृ॒ता॒ । सौभ॑गानि ॥